वाचस्पत्यम्
वैजिक || न० वीजेन निर्वृत्तं ठक् । १ शिग्रुतैले मेदि० । वीजाय हितम् स्वार्थे ठक् वा । २ कारणे । ३ आत्मनि शब्दमा० तस्येदं वीजादागतं वा ठञ् । ४ सद्योजाता- ङ्कुरे मेदि० ५ वीजसम्बन्धिनि त्रि० ।
शब्दकल्पद्रुमः
वै(बै)जिकं || क्ली (वीजादुत्पन्नम् । वीज + ठक् ।)
शिग्रुतैलम् । हेतुः । इति मेदिनी ॥ आत्मा । इति शब्दमाला ॥
शब्दकल्पद्रुमः
वै(बै)जिकः || पुं, सद्योऽङ्कुरः । इति मेदिनी ॥ बीज, सम्बन्धिनि, त्रि ॥ (वीर्य्यसम्बन्धिनि च त्रि । यथा, मनौ । २ । २७ । “गार्भैर्होमैर्जातकर्म्मचौडमौञ्जीनिबन्धनैः । वैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते ॥”)