वाचस्पत्यम्
वैडालव्रत || न० विडालस्येदम् अण् तदिव व्रतम् “यस्य धर्म्म- ध्वजो नित्यं शक्रध्वज इवोच्छ्रितः । प्रच्छन्नानि च पा- पानि वैडालं नाम तद्व्रतम्” इत्युक्ते प्रकाशेन धर्म्मा- चरणेन गुप्तपापाचारे ।
शब्दकल्पद्रुमः
वै(बै)डालव्रतं || क्ली (वैडालं विडालसम्बन्धि व्रतम् ।)
दुष्टाचारविशेषः । यथा, —
“यस्य धर्म्मध्वजो नित्यं शक्रध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥” इति दानसागरे यमवचनम् ॥