संस्कृत-शब्दकोशः

वैडालव्रतिक वैण

वैडालव्रतिन्

शब्दकल्पद्रुमः

वै(बै)डालव्रती || [न्] पुं, (वैडालव्रतमस्त्यस्येति । इनिः ।)
भण्डतापसः । विडालतपस्वी । इति भाषा । यथा, कौर्म्मे उपविभागे ५ अध्याये । “छद्मना चरितं तच्च व्रतं रक्षसि गच्छति । अलिङ्गी लिङ्गवेशेन यो लिङ्गमुपजीवति । स लिङ्गिनां हरेदेनस्तिर्य्यग्योनौ च जायते ॥ वैडालव्रतिनः पापाः सर्व्वधर्म्मविनाशकाः । सद्यः पतन्ति पापेषु कर्म्मणस्तस्य तत्फलम् ॥ पाषण्डिनो विकर्म्मस्थान् वामाचारांस्तथैव च । पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्च्चयेत् ॥”



Correction: