संस्कृत-शब्दकोशः

वैण वैणविक

वैणव

वाचस्पत्यम्

वैणव ||‍ न० वेणूनां फलम् अण्, तस्य न लुप् तस्येदं वा अण् । १ वेणु- फले वेणुयवे अमरः । २ वेणुसम्बन्धिनि त्रि० स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

वैणवं || क्ली (वेणोरिदम् । वेणु + अण्)
वेणु- फलम् । इत्यमरः ॥ वेणुसम्बन्धिनि, त्रि ॥ (यथा, भागवते । ११ । ३० । २४ । “ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् । स्पर्द्धाक्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥”)


शब्दकल्पद्रुमः

वैणवः || पुं, (वेणोरवयवो विकारो वा । वेणु + “विल्वादिभ्योऽण् ।” ४ । ३ । १३६ । इत्यण् ।)
उपनयने वेणुदण्डः । तत्पर्य्यायः । राम्भः २ । इत्यमरः ॥ (वेणुः । यथा, महाभारते । ५ । ९० । १६ । “भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ॥”)



Correction: