संस्कृत-शब्दकोशः

वैणिक वैणुकीय

वैणुक

वाचस्पत्यम्

वैणुक ||‍ न० वेणोर्विकारः ठक् । १ गजचालनार्थे लौहमुखे वंशदण्डे अमरः । वेणुस्तद्वादनं शिल्यमस्य ठक् । २ वेणु- वादके त्रि० शब्दच० ।


शब्दकल्पद्रुमः

वैणुकं || क्ली गजस्य तोदनदण्डम् । तत्तु हस्ति- चालनार्थं लौहमुखवंशदण्डम् । तत्पर्य्यायः । तोत्रम् २ । इत्यमरः ॥ वैणुकम् ३ । इति भरतः ॥


शब्दकल्पद्रुमः

वैणुकः || पुं, (वेणुना कायति शब्दायते इति । कै + कः । ततः स्वार्थे अण् ।)
वेणुवादकः । इति शब्दरत्नावली ॥



Correction: