संस्कृत-शब्दकोशः

वैतानिक वैतालीय

वैतालिक

वाचस्पत्यम्

वैतालिक ||‍ त्रि० विविधस्तालः मङ्गलगीतादिशब्दस्तेन व्यव हरति ठक् । मङ्गलस्तुत्यादिभिः राज्ञां प्रवोधकारके मागधादौ अमरः ।


शब्दकल्पद्रुमः

वैतालिकः || पुं, (विविघेन तालेन चरतीति । विताल + ठक् ।)
बोधकरः । इत्यमरः ॥ द्वे निशान्ते बोधकारके । विविधो मङ्गलगीति- वाद्यादिकृतस्तालशब्दः तेन व्यवहरन्ति वैता- लिकाः ढघे कादिति ष्णिकः । निशान्तं निवे- दयन्तो ये नृपं बोधयन्ति जागरयन्ति ते बोध- कराः सृकुष्ट इति टः । इति भरतः ॥ (यथा, शिशुपालवधे । ५ । ६७ । “वैतालिकाः स्फुटपदप्रकटार्थमुच्चै- र्भोगावलीः कलगिरोऽवसरेषु पेठुः ॥”)
खेट्टितालः । यथा, —
“वैतालिकः पुमान् खेट्टिताले बोधकरे त्रिषु ॥” इति मेदिनी ॥ हेमचन्द्रे तु पाठान्तरं यथा, —
“वैतालिकः खड्जताले मङ्गलपाठकेऽपि च ॥” वेतालसम्बन्धिनि, त्रि ॥



Correction: