वाचस्पत्यम्
वैतालीय || पु० मात्रावृत्तभेदे । “षड्विषमेऽष्टौ समे कला- स्ताश्च समे स्युर्नो निरन्तराः । न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः” वृ० र० ।