वाचस्पत्यम्
वैदिक || पु० वेदं वेत्त्यधीते वा ठञ् । १ वेदज्ञे ब्राह्मणे वेदेषु विहितः ठक् । २ वेदोक्ते कर्मणि त्रि० । स्त्रियां ङीप् “वेदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः” तन्त्रम् ।
शब्दकल्पद्रुमः
वैदिकः || पुं, (वेदं जानातीति । वेद + ठञ् ।)
वेदज्ञब्राह्मणः । वेदोक्ते, त्रि । यथा, तन्त्रसारे । “वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः ॥”