संस्कृत-शब्दकोशः

वैदेहिक वैद्य

वैदेही

वाचस्पत्यम्

वैदेही ||‍ स्त्री विदेहेषु मिथिलादेशेषु भवा अण् । १ सीतायाम् जनकात्मजायाम् २ हरिद्रायाम् ३पिप्पल्यां ४ वणिक् स्त्रियाञ्च मेदि० ।


शब्दकल्पद्रुमः

वैदेही || स्त्री (विदेहेषु भवा विदेहस्यापत्यं स्त्री वा । विदेह + अण् । ङीप् ।)
रोचना । सीता । (यथा, रघुः । १२ । २० । “रामोऽपि सह वैदेह्या वने वन्येन वर्त्तयन् । चचार सानुजः शान्तो वृद्धेक्षाकुव्रतं युवा ॥” यथा च । “वैदेहि ! याहि कलसोद्भवधर्म्मपत्नीं तस्याः पुरः कथय पूर्व्वकथाः समस्ताः । पृष्टापि मा वद पयोनिधिबन्धनं मे सेयं पुनश्चुलुकिताम्बुनिधेः कलत्रम् ॥” इत्युद्भटः ॥)
बणिक्स्त्री । पिप्पली । इति मेदिनी ॥ (वैदेह- पत्नी । यथा, मनुः । १० । ३७ । “आहिण्डिको निषादेन वैदेह्यामेव जायते ॥” विदेहदेशोत्पन्नमात्रे च । यथा, महाभारते । १ । ९५ । २३ । “देवातिथिः खलु वैदेहीमुप- येमे मर्य्यादां नाम तस्यामस्य जज्ञे अरिहो नाम ॥”)



Correction: