वाचस्पत्यम्
वैद्य || पु० विद्याऽस्त्यस्य अण् । १ पण्डिते “नाविद्यानान्तु वैद्येन देयं विद्याधनात् क्वचित्” दायभा० । २ भिषजि अमरः । तदुपकारके ३ वासकवृक्षे च शब्दच० । वैद्योत्पत्तिश्च “वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति । वैद्यवी- र्य्येण शूद्रायां बभूवुर्बहवो जनाः । ते च ग्रामगुण- ज्ञाश्च मन्त्रोषधिपरायणाः । तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणो भुवि” । शौनक उवाच “कथं ब्रा- ह्मणपत्न्यान्तु सूर्य्यपुत्रोऽश्विनीसुतः । अहो केन विपा- केन वीर्य्याधानं चकार सः” । सौतिरुवाच “गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः । ददर्श कामुकीं कान्तः पुष्पोद्याने मनोहरे । तया निवारितो यत्नात् बलेन बलवान् सुरः । अतीव सुन्दरीं दृष्ट्वा वीर्य्यातानं चकार सः । द्रुतं तत्याज गर्भं सा पुष्पाद्याने ममोरमे सद्यो बभूव पुत्रश्च तप्तकाञ्चनसन्निमः । सपुत्रा स्वा- मिनो गेहं जगाम व्रीडिता तदा । स्वामिनं कथया- मास यस्माद्दैवादिसङ्कटम् । विप्रोरोषेण तत्याज तञ्च पुत्रं स्वकामिनीम् । सरिद् बभूव योगेन सा च गोदा- वरी स्मृता । पुत्रं चिकित्साशास्त्रञ्च पाठयामास य- त्नतः । नानाशिल्पञ्च शस्त्रञ्च स्वयं स रविनन्दनः । विप्रश्च ज्योतिर्गणनात् वेदनाच्च निरन्तरम् । वेदधर्मप- रित्यक्तो बभूव गणको भुवि” । ब्रह्मवै० पु० १० अ० । नरकभोगान्ते वैद्यजन्म यथा “यः करोत्यपहारञ्च देव ब्राह्मणयोर्धनम् । पातयित्वा स्वपुरुषान् दश पूर्वान् दशा परान् । स्वयं याति च धूमान्धं धूमध्वान्तसम- न्वितम् । धूमक्लिष्टो धूमभोगी वसेत्तत्र चतुर्युगम् । ततो मूषिकजातिश्च शतजन्मानि भारते । ततो नाना- विधाः पक्षिजातयः कृमिजातयः । ततो नानाविधाः वृक्षजातयश्च ततो नरः । भार्य्याहीनो वंशहीनः शवरो व्याधिसंयुतः । ततो भवेत् स्वर्णकारः स सुवर्णवणिक् ततः । ततो जवनसेवी च ब्राह्मणो गणकस्ततः । विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः” । “लाक्षालोहादिव्यापारी रसादिविक्रयी च यः । स- याति नागवेष्टञ्च सर्पैर्वेष्टित एव च । वसेत् सलोममा- नाव्द तत्रैव नागदंशितः । ततो भवेत् स गणकी वैद्यश्च सप्तजन्मसु । गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः” । ब्र- ह्मवै० पु० २८ अ० । राजवैद्यस्य लक्षणं यथा “परं पार- ङ्गतो यः स्यादष्टाङ्गे तु चिकित्सिते । अनाहार्य्यः स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः । प्राणावार्य्यः स वि- ज्ञेयो वचनं तस्य भूभुजः । राजन्! राज्ञा सदा कार्य्यं यथाकार्य्यं पृथग्जनैः” । मात्स्ये १८९ अ० । “चि- कित्सां कुरुते यस्तु स चिकित्सक उच्यते । स च यादृक् समीचीनस्तादृशोऽपि निगद्यते । तत्त्वा- धिगतशास्त्रार्थो दृष्टकर्मा स्वयं कृती । लघुहस्तः शुचिः शूरः स्वच्छोपस्करभेषजः । प्रत्युत्पन्नमतिर्धीमान् व्यव- सायी प्रियंवदः । सत्यधर्मपरोयश्च वैद्य ईदृक् प्रशस्यते” । दृष्टकर्मा दृष्टा परेण कृता चिकित्सा येन सः । स्वयं कृती स्वयं चिकित्साकुशलः । लघुहस्तः सिद्धिमद्धस्तः । निषिद्धवैद्यो यथा “कुचेलः कर्कशः स्तब्धः ग्रामीणः स्व- यमागतः । पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा अपि” । वर्कशः अपियवादी । स्तब्धः साभिमानः । ग्रामीणः व्यवहाराचतुरः । अथ वैद्यस्य कर्म आह “व्याधेस्तत्त्व- परिज्ञानं वेदनायाश्च निग्रहः । एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः” भावप्र० “सत्यत्रेताद्वापरेषु युगेषु ब्रा- ह्मणाः किल । ब्रह्मक्षत्रियविट्शूद्रकन्यका उपयेमिरे । तत्र वैश्यसुतायां ये जज्ञिरे तनया अमी । सर्वे ते मुनयः ख्याता वेदवेदाङ्गपारगाः । तेषां मुख्योऽमृताचार्य्य- स्तस्थावम्बाकुले हि यत् । अम्बष्ठ इत्यसाव्क्तस्ततो जाति प्रवर्त्तनाद् । परे सर्वेऽपि चाम्बष्ठा वैश्याब्राह्मणस- म्भवाः । जननीतो जनुर्लब्धा यज्जाता वेदसंस्कृतैः । अम्बष्ठास्तेन ते सर्वे द्विजा वैद्याः प्रकीर्त्तिताः । अथ रुक् प्रतिकारित्वाद्भिषजस्ते प्रकीर्त्तिताः । सत्ये वैद्याः पितुस्तुल्यास्त्रेतायाञ्च तथा स्मृताः । द्वापरे क्षत्रवत् प्रोक्ताः कलौ वैश्योपमाः स्मृताः” कुलच० । आयुर्वेद- शब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वैद्यः || त्रि वेदसम्बन्धीयः । वेदशब्दात् ष्ण्यप्रत्ययेन निष्पन्नमेतत् ॥
शब्दकल्पद्रुमः
वैद्यः || पुं, (विद्यां वेदेति । विद्या + “तदधीते तद्वेद ।” ४ । २ । ५९ । इति अण् ।)
पण्डितः । यथा । कात्यायनः । “नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् । समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ॥” वैद्येन विदुषा । इति दायतत्त्वम् ॥ वासकवृक्षः । इति शब्दचन्द्रिका ॥ आयुर्व्वेदवेत्ता । स चाम्बष्ठ- जातिश्चिकित्सावृत्तिश्च । तत्पर्य्यायः । रोग- हारी २ अगदङ्कारः ३ भिषक् ४ चिकित्सकः ५ । इत्यमरमरतौ ॥ स्रष्टा ६ विधिः ७ विद्वान् ८ आयुर्व्वेदी ९ । इति राजनिर्घण्टः ॥ स चतु- र्व्विधः । रोगहरः १ विषहरः २ शल्यहरः ३ कृत्याहरः ४ । इति महाभारते राजधर्म्मः ॥ अस्योत्पत्तिर्यथा, —
“वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति । वैद्यवीर्य्येण शूद्रायां बभूवुर्ब्बहवो जनाः ॥ ते च ग्रामगुणज्ञाश्च मन्त्रौषधिपरायणाः । तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणो भुवि ॥ शौनक उवाच । कथं ब्राह्मणपत्न्यान्तु सूर्य्यपुत्त्रोऽश्विनीसुतः । अहो केन विपाकेन वीर्य्याधानं चकार सः ॥ सौतिरुचाच । गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं कुरुनन्दन । ददर्श कामुकीं कान्तः पुष्पोद्याने मनोहरे ॥ तया निवारितो यत्नात् बलेन बलवान् सुरः । अतीव सुन्दरीं दृष्ट्वा वीर्य्याधानं चकार सः ॥ द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोरमे । सद्यो बभूव पुत्त्रश्च तप्तकाञ्चनसन्निभः ॥ सपुत्त्रा स्वामिनो गेहं जगाम व्रीडिता तदा । स्वामिनं कथयामास यस्माद्दैवादिसङ्कटम् । विप्रो रोषेण तत्याज तञ्च पुत्त्रं स्वकामिनीम् । सरिद्बभूव योगेन सा च गोदावरी स्मृता ॥ पुत्त्रं चिकित्साशास्त्रञ्च पाठयामास यत्नतः । नानाशिल्पञ्च शस्त्रञ्च स्वयं स रविनन्दनः ॥ विप्रश्च ज्योतिर्गणनात् वेदनाच्च निरन्तरम् । वेदधर्म्मपरित्यक्तो बभूव गणको भुवि ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ * ॥
नरकभोगान्ते वैद्यजन्म यथा, —
“यः करोत्यपहारञ्च देवब्राह्मणयोर्धनम् । पातयित्वा स्वपुरुषान् दश पूर्व्वान् दशापरान् ॥ स्वयं याति च धूमान्धं धूमध्वान्तसमन्वितम् । धूमक्लिष्टो धूमभोगी वसेत्तत्र चतुर्युगम् ॥ ततो मूषिकजातिश्च शतजन्मनि भारते । ततो नानाविधाः पक्षिजातयः कृमिजातयः ॥ ततो नानाविधा वृक्षजातयश्च ततो नरः । भार्य्याहीनो वंशहीनः शवरो व्याधिसंयुतः ॥ ततो भवेत् स्वर्णकारः स सुवर्णबणिक् ततः । ततो जवनसेवी च ब्राह्मणो गणकस्ततः । विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः ॥” * अपि च । “लाक्षालोहादिव्यापारी रसादिविक्रयी च यः । स याति नागवेष्टञ्च नागैर्व्वेष्टित एव च । वसेत् स लोममानाब्दं तत्रैव नागदंशितः ॥ ततो भवेत् स गणको वैद्यश्च सप्तजन्मसु । गोपश्च कर्म्मकारश्च रङ्गकारस्ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २८ अध्यायः ॥ * ॥
राजवैद्यस्य लक्षणं यथा, —
“परं पारं गतो यः स्यादष्टाङ्गे तु चिकित्सिते । अनाहार्य्यः स वैद्यः स्याद्धर्म्मात्मा च कुलो- द्गतः । प्राणावार्य्यः स विज्ञेयो वचनं तस्य भूभुजः । राजन् राज्ञा सदा कार्य्यं यथा कार्य्यं पृथग्- जनैः ॥” इति मात्स्ये १८९ अध्यायः ॥ * ॥
सामान्यवैद्यलक्षणं यथा, —
“चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते । स च यादृक् समीचीनस्तादृशोऽपि निगद्यते ॥ तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती । लघुहस्तः शुचिः शूरः स्वच्छोपस्करभेषजः ॥ प्रत्युत्पन्नमतिर्धीमान् व्यवसायी प्रियंवदः । सत्यधर्म्मपरो यश्च वैद्य ईदृक् प्रशस्यते ॥” दृष्टकर्म्मा दृष्टा परेण कृता चिकित्सा येन सः । स्वयंकृती स्वयंचिकित्साकुशलः । लघुहस्तः सिद्धिमद्धस्तः ॥ * ॥
निषिद्धवैद्यो यथा, —
“कुचेलः कर्कशः स्तब्धो ग्रामीणः स्वयमागतः । पञ्च वैद्या न पूज्यन्ते घन्वन्तरिसमा अपि ॥” कर्कशः अप्रियवादी । स्तब्धः साभिमानः । ग्रामीणः व्यवहाराचतुरः ॥ * ॥
अथ वैद्यस्य कर्म्म आह । “व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः । एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥” अस्यायमर्थः । व्याधेः सम्यक् परिचयः । व्यथा- शान्तिकरणं वैद्यस्य कर्म्म । न तु वैद्यः आयुषः प्रभुरित्यर्थः । अपरे त्वेवं व्याचक्षते । व्याधे- स्तत्त्वपरिचयः । वेदनायाः शान्तिकरणञ्च । एतदेव वैद्यस्य वैद्यत्वं न किन्तु वैद्य आयुषः प्रभुरित्यर्थः ॥ * ॥
अथ वैद्यानयनदूतस्य लक्षणम् । “यश्चिकित्सकमानेतुं याति दूतः स कथ्यते । स च यादृक् समुचितस्तादृगत्र निगद्यते ॥ दूताः सुजातयोऽव्यङ्गाः पटवो निर्म्मलाम्बराः । सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ॥ सजातयः सुचेष्टाश्च स्वजीवदिशि सङ्गताः । भिषजं समये प्राप्ता रोगिणः सुखहेतवः ॥” सजातयः रोगिसमानजातयः । “यस्यां प्राणमरुद्वाति सा नाडी जीव- संश्रिता ॥” * ॥
अथ दूतयात्रायां शकुनविचारः । “वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते । न शुभं सौम्यशकुनप्रदीप्तन्तु सुखावहम् ॥” प्रदीप्तमग्निः । दूतो रोगी च रिक्तहस्तो वैद्यं न पश्येत् । तथा च । “रिक्तहस्तो न पश्येत्तु राजानं भिषजं गुरुम् ।” अथ आयुर्व्विदां प्रादुर्भावः । तत्रादौ ब्रह्म- प्रादुर्भावः । “विधाताथर्व्वसर्व्वस्वमायुर्व्वेदं प्रकाशयन् । स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम् ॥ ततः प्रजापतिं दक्षं दक्षं सकलकर्म्मसु । विधिर्धीनीरधिः साङ्गमायुर्व्वेदमुपादिशत् ॥” * ॥
अथ दक्षप्रादुर्भावः । “अथ दक्षः क्रियादक्षः स्वर्व्वैद्यौ वेदमायुषः । वेदयामास विद्वांसौ सूर्य्यांशौ सुरसत्तमौ ॥” * ॥
अथाश्विनीसुतप्रादुर्भावः । “दक्षादधीत्य दस्रौ वितेनतुः संहितां स्वीयाम् । सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ॥ स्वयम्भु वः शिरश्छिन्नं भैरवेण रुषाथ तत् । अश्विभ्यां संहितं तस्मात्तौ जातौ यज्ञभागिनौ ॥ देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः । अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत् ॥ वज्रिणोऽभूद्भुजस्तम्भः स दस्राभ्यां चिकित्सितः । सोमान्निपतितश्चन्द्रस्ताभ्यामेव सुखीकृतः ॥ विशीर्णा दशनाः पुष्णो नेत्रे नष्टे भगस्य च । शशिनो राजयक्ष्माभूदश्विभ्यां ते चिकित्सिताः ॥ भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः । वीर्य्यवर्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा ॥ एतैश्चान्यैश्च बहुभिः कर्म्मभिर्भिषजां वरौ । बभूवतुर्भृशं पूज्याविन्द्रादीनां दिवौकसाम् ॥” * अथेन्द्रप्रादुर्भावः । “संदृश्य दस्रयोरिन्द्रः कर्म्माण्येतानि यत्नवान् । आयुर्व्वेदं निरुद्वेगं तौ ययाचे शचीपतिः ॥ नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ । आयुर्व्वेदं यथाधीतं ददतुः शतमन्यवे ॥ नासत्याभ्यामधीत्यैष आयुर्व्वेदं शतक्रतुः । अध्यापयामास बहूनात्रेयप्रमुखान् मुनीन् ॥” * अथात्रेयप्रादुर्भावः । “एकदा जगदालोक्य गदाकुलमितस्ततः । चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः ॥ किं करोमि क्वगच्छामि कथं लोका निरामयाः । भवन्ति सामयानेतान्न शक्नोमि निरीक्षितुम् ॥ दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः । एतेषां दुःखतो दुःखं ममापि हृदयेऽधिकम् ॥ आयुर्व्वेदं पठिष्यामि नैरुज्याय शरीरिणाम् । इति निश्चित्य गतवानात्रेयस्त्रिदशालयम् ॥ तत्र मन्दिरमिन्द्रस्य गत्वा शक्रं ददर्श सः । सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः ॥ भासयन्तं दिशो भासा भास्करप्रतिमं त्विषा । आयुर्व्वेदमहाचार्य्यं शिरोधार्य्यं दिवौकसाम् ॥ शक्रस्तु तं निरीक्ष्यैव त्यक्तसिंहासनो ययौ । तदग्रे पूजयामास भृशं भूरितपःकृशम् ॥ कुशलं परिपप्रच्छ तथागमनकारणम् । स मुनिर्व्वक्तुमारेभे निजागमनकारणम् ॥ देवराज न राजासि दिव एव यतो भवान् । विधात्रा विहितो यत्नात्त्रिलोकी लोकपालकः ॥ व्याधिभिर्व्यथिता लोकाः शोकाकुलितचेतसः । भूतेले सन्ति सन्तापं तेषां हर्त्तुं कृपां कुरु ॥ आयुर्व्वेदोपदेशं मे कुरु कारुण्यतो नृणाम् । तथेत्युक्त्वा सहस्राक्षोऽध्यापयामास तं मुनिम् ॥ मुनीन्द्र इन्द्रतः साङ्गमायुर्व्वेदमधीत्य सः । अभिनन्द्य तमाशीर्भिराजगाम पुनर्महीम् ॥ अथात्रेयो मुनिश्रेष्ठो भगवान् करुणापरः । स्वनाम्ना संहितां चके नरचक्रानुकम्पया ॥ ततोऽग्निवेशं भेडञ्च जातूकर्णं पराशरम् । क्षीरपाणिञ्च हारीतमायुर्व्वेदमपाठयत् ॥ तन्त्रस्य कर्त्ता प्रथममग्निवे शोऽभवत् पुरा । ततो भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च ॥ श्रावयामासुरात्रेयं मुनिवृन्देन वन्दितम् । श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः ॥ यथावत् सूत्रितं तस्मात् प्रहृष्टा मुनयोऽभवन् । दिवि देवर्षयो देवाः श्रुत्वा साध्विति चाब्रुवन् ॥” अथ भरद्बाजप्रादुर्भावः । “एकदा हिमवत्पार्श्वे दैवादागत्य संगताः । मुनयो बहवस्तांश्च नामभिः कथयाम्यहम् ॥ भरद्वाजो मुनिवरः प्रथमं समुपागतः । ततोऽङ्गिरास्ततो गर्गो मरीचिर्भृगुभार्गवौ ॥ पुलस्त्योऽगस्तिरसितो वशिष्ठः सपराशरः । हारीतो गोतमः सांख्यो मैत्रेयश्च्यवनोऽपि च ॥ यमदग्निश्च गार्ग्यश्च काश्यपः कश्यपोऽपि च । नारदो वामदेवश्च मार्कण्डेयः कपिष्ठलः ॥ शाण्डिल्यः सहकौण्डिन्यः शाकुनेयः सशौनकः । आश्वलायनसांकृत्यौ विश्वामित्रः परीक्षितः ॥ देवलो गालवो धौम्यः काप्यकात्यायनावुभौ । काङ्कायनो वैजवापः कुशिको वादरायणिः ॥ हिरण्याक्षश्च लोकाक्षिः शरलोमा च गोभिलः । वैखानसा वालखिल्लास्तथैवान्ये महर्षयः ॥ ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च । तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ॥ सुखोपविष्टास्ते तत्र सर्व्वे चक्रुः कथामिमाम् । धर्म्मार्थकाममोक्षाणां मूलमुक्तकलेवरम् ॥ तत्र सर्व्वार्थसंसिद्ध्यैभवेद्यदि निरामयम् । तपःस्वाध्यायधर्म्माणां ब्रह्मचर्य्यव्रतायुषाम् ॥ हर्त्तारः प्रसृता रोगा यत्र तत्र च सर्व्वतः । रोगाः कार्श्यकरा बलक्षयकरा देहस्य चेष्टा- हरा- दृश्यादीन्द्रियशक्तिसंक्षयकराः सर्व्वाङ्गपीडा- कराः । धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात् प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम् ॥ तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भि- र्ब्बुधै- र्योगैरित्यभिधाय संसदि भरद्बाजं मुनिं तेऽब्रु- वन् । त्वं योग्यो भगवान् सहस्रनयनं याचस्व लब्धुं क्रमात् आयुर्व्वेदमधीत्य यं गदभयान्मुक्ता भवामो वयम् ॥ इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः । भरद्वाजो मुनिश्रेष्ठो जगाम त्रिदशालयम् ॥ तत्रेन्द्रभवनं गत्वा सुरर्षिगणमध्यगम् । दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम् ॥ दृष्ट्वैव स मुनिं प्राह भगवान् मघवा मुदा । धर्म्मज्ञ स्वागतं तेऽथ मुनिं तं समपूजयत् ॥ सोऽधिगम्य जयाशीर्भिरभिवन्द्य सुरेश्वरम् । ऋषीणां वचनं सम्यगश्रावयत सत्तमम् ॥ व्याधयो हि समुत्पन्नाः सर्व्वप्राणिभयङ्कराः । तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि ॥ तमुवाच मुनिं साङ्गमायुर्व्वेदं शतक्रतुः । जीवेद्बर्षसहस्राणि देही नीरुङ्निशम्य यम् ॥ सोऽनन्तागारं त्रिस्कन्धमायुर्व्वेदं महामतिः । यथावदचिरात् सर्व्वं बुबुधे तन्मना मुनिः ॥ तेनायुः सुचिरं लेभे भरद्वाजो निरामयम् । अन्यानपि मुनींश्चक्रे नीरुजः सुचिरायुषः ॥ तत्तत्र जनितज्ञानचक्षुषा ऋषयोऽखिलाः । गुणान् द्रव्याणि कर्म्माणि दृष्ट्वा तद्विधि- माश्रिताः ॥ आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम् । आयुर्व्वेदोक्तविधिनान्येऽपि स्युर्मुनयो यथा ॥” अथ चरकप्रादुर्भावः । “यदा मत्स्यावतारेण हरिणा वेद उद्धृतः । तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान् ॥ अथर्व्वान्तर्गतं सम्यगायुर्व्वेदञ्च लब्धवान् । एकदा स महद्वृत्तं द्रष्टुं चर इवागतः ॥ तत्र लोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान् । स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान् ॥ तान् दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः । अनन्तश्चिन्तयामास रोगोपशमकारणम् ॥ सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्त्रो बभूव ह । यतश्चर इवायातो न ज्ञातः केनचिद्यतः ॥ तस्माच्चरकनामासौ विख्यातः क्षितिमण्डले । स भाति चरकाचार्य्यो देवाचार्य्यो यथा दिवि ॥ सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः । आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन् ॥ मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम् । तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता । चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः ॥” अथ धन्वन्तरिप्रादुर्भावः । “एकदा देवराजस्य दृष्टिर्निपतिता भुवि । तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ॥ तान् दृष्ट्वा हृदयं तस्य दयया परिपीडितम् । यदार्द्रहृदयः शक्रो धन्वन्तरिमुवाच ह ॥ धन्वन्तरे सुरश्रेष्ठ भगवन् किञ्चिदुच्यते । यीग्यो भवति भूतानामुपकारपरो भव ॥ उपाकाराय लोकानां केन किं न कृतं पुरा । त्रैलोक्याधिपतिर्व्विष्णुरभून्मत्स्यादिरूपवान् ॥ तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव । प्रतीकाराय रोगाणामायुर्व्वेदं प्रकाशय ॥ इत्युक्त्वा सुरशार्दूलः सर्व्वभूतहितेप्सया । समस्तमायुषो वेदं धन्वन्तरिमुपादिशत् ॥ अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा । आगत्य पृथिवीं काश्यां जातो बाहुजवेश्मनि नाम्ना तु सोऽभवत् ख्यातो दिवोदास इति क्षितौ । बाल एव विरक्तोऽभूच्चचार च महत्तपः ॥ यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम् । ततो धन्वन्तरिर्लौकैः काशीराजोऽभिधीयते ॥ हिताय देहिनां स्वीयसंहिता विहितामुना । अयं विद्यार्थिनो लोकान् संहितां तामपाठ- यत् ॥” अथ सुश्रुतप्रादुर्भावः । “अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽवदन् । अयं धन्वन्तरिः काश्यां काशीराजोऽयमुच्यते ॥ विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् । वत्स ! वाराणसों गच्छ तां विश्वेश्वरवल्लभाम् ॥ तत्र नाम्ना दिवोदासः काशीराजोऽस्ति बाहुजः । स हि धन्वन्तरिः साक्षादायुर्व्वेदविदां वरः ॥ आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे । सर्व्वप्राणिदया तीर्थमुपकारो महामखः ॥ पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः । तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ ॥ अथ धन्वन्तरिं सर्व्वेवानप्रस्थाश्रमे स्थितम् । भगवन्तं सुरश्रेष्ठं मुनिभिर्ब्बहुभिः स्तुतम् ॥ काशीराजं दिवोदासं तेऽपश्यन् विनयान्विताः । स्वागतञ्च इति स्माह दिवोदासो यशोधनः ॥ कुशलं परिपप्रच्छ तथागमनकारणम् । ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम् ॥ भगवन् मानवान् दृष्ट्वा व्याधिभिः परिपीडितान् । क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा ॥ आमयानां शमोपायं विज्ञातुं वयमागताः । आयुर्व्वेदं भवानस्मानध्यापयतु यत्नतः ॥ अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् । व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयो मुदा ॥ काशीराजं जयाशीर्भिरभिनन्द्य मुदान्विताः । सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम् ॥ प्रथमं सुश्रुतस्तेषु स्वं तन्त्रं कृतवान् स्फुटम् । सुश्रुतस्य सखायोऽपि पृथक् तन्त्राणि तेनिरे । सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः । तस्मात्तं सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले ॥” इति भावप्रकाशः ॥ अथ मतान्तरे वैद्योत्पत्तिकथनम् । “सत्यत्रेताद्वापरेषु युगेषु ब्राह्मणाः किल । ब्रह्मक्षत्त्रियविट्शूद्रकन्यका उपयेमिरे ॥ तत्र वैश्यसुतायां ये जज्ञिरे तनया अमी । सर्व्वे ते मुनयः ख्याता वेदवेदाङ्गपारगाः ॥ तेषां मुख्योऽमृताचार्य्यस्तस्थावम्बा कुले हि तत् । अम्बष्ठ इत्यसावुक्तस्ततो जातिप्रवर्त्तनात् ॥ परे सर्व्वेऽपि चाम्बष्ठा वैश्या ब्राह्मणसम्भवाः । जननीतो जनुर्लब्धा यज्जाता वेदसंस्कृतैः ॥ अम्बष्ठास्तेन ते सर्व्वे द्विजा वैद्याः प्रकीर्त्तिताः । अथ रुक्प्रतिकारित्वाद्भिषजस्ते प्रकीर्त्तिताः ॥ सत्ये वैद्याः पितुस्तुल्यास्त्रेतायाञ्च तथा स्मृताः । द्वापरे क्षत्त्रवत्प्रोक्ताः कलौ वैश्योपमाः स्मृताः ॥ अथाम्बष्ठेषु सर्व्वेषु विख्याता अभवन्नमी । सेनो दासश्च गुप्तश्च दत्तो देवः करो धरः ॥ राजः सोमश्च नन्दिश्च कुण्डश्चन्द्रश्च रक्षितः । एषां वंशाः समुत्पन्ना एतत्पद्धतयो मताः ॥ अन्यपद्धतयोऽप्येवं सन्ति वैद्या न ते श्रुताः । बहवश्चैकनामानो नानागोत्रसमुद्भवाः ॥ यथाष्टौ विश्रुताः सेना इत्येवमपरे मताः । यस्य यस्य मुनेर्यो यः सन्तानः स स विश्रुतः ॥ तत्तद्गोत्रादिना वैद्यः श्रैष्ठ्याद्यन्तु स्वकर्म्मणा ॥” तथा हि । “तिस्रो वर्णानुपूर्ब्बेण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्त्रियविशां भार्य्याः स्वाः शूद्रजन्मनः ॥ यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः । नैतन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥ पाणिं भर्त्तुः सवर्णासु गृह्णीयात् क्षत्त्रिया शरम् । वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ॥ सवर्णेभ्यः सवर्णासु जायन्ते च सजातयः । अनिन्द्येषु विवाहेषु पुत्त्राः सन्तानवर्द्धनाः ॥ विप्रान्मूर्द्धाभिषिक्तो हि क्षत्त्रियायां विशः स्त्रियाम् । जातोऽम्बष्टस्तु शूद्रायां निषादः पार्श्ववोऽपि वा ॥ वैश्याशूद्र्योश्च राजन्यान्महिष्यौ द्वौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः ॥” एते षट् श्लोका याज्ञवल्क्यीयाः ॥ “शूद्रैव भार्य्या शूद्रस्य सा च स्वा च विशःस्मृते । ते च स्वा चैव राज्ञस्तु ताश्च स्वा चाग्रजन्मनः ॥ पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥ शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वसनस्य दशा ग्राह्याः शूद्रयोत्कृष्टवेदने ॥” इति पद्यत्रयम् ॥ “ब्राह्मणाद्बश्यकन्यायामम्बष्ठो नाम जायते ॥” इति च पद्यार्द्धं मानवीयम् ॥ “वैश्यायां ब्राह्मणाज्जातोऽम्बष्ठो हि नुनि- सत्तम । ब्राह्मणानां चिकित्सार्थं निर्द्दिष्टो मुनिपुङ्गवैः ॥” इति पराशरः ॥ “वेदाज्जातो हि वैद्यः स्यादम्बष्ठो ब्रह्मपुत्त्रकः ।” इति शङ्खः ॥ ब्रह्मा मूर्द्धाभिषिक्तश्च वैद्यः क्षत्त्रविशावपि । अमी पञ्च द्बिजा एषां यथापूर्ब्बञ्च गौरवम् ॥” इति हारीतः ॥ “मातुर्यदा प्रजायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्त्रियविशस्तस्मादेते द्बिजाः स्मृताः ॥” इति याज्ञवल्क्यवचनम् ॥ मूर्द्धाभिषिक्ताम्बष्ठयोरपि पितृवत्त्वात् द्विजत्वम् ॥ इति बृद्धाः ॥ “आयुर्व्वेदोपनयनाद्वैद्यो द्बिज इति स्मृतः ॥” इति वैद्यकेऽग्निवेशः ॥ “तपोयोगात् पुरा वैद्यस्तेजसा पितृवत् स्मृताः । विप्रात् क्षत्त्राद्यतो न्यूनाः क्रियया वैश्यवत् कृताः ॥ शनैः शनैः क्रियालोपादथ ता वैद्यजातयः । कलौ शूद्रत्वमापन्ना यथा क्षत्त्रा यथा विशः ॥” इति विष्णुः ॥ “युगे जघन्ये द्वे जाती ब्राह्मणः शूद्र एव च ।” इति यमः ॥ “शनकैश्च क्रियालोपादिमाः क्षत्त्रियजातयः । वृषलत्वङ्गता लोके ब्राह्मणादर्शनेन च ॥” इति मनुवचनं धृत्वा एवमम्बष्ठादीनामपि कलौ शूद्रत्वमिति स्वस्वग्रन्थेषु वाचस्पतिमिश्रादिभि- स्तथा शुद्धितत्त्वे स्मार्त्तभट्टाचार्य्येणाप्युक्तम् । अतएव कुलपञ्जिकायामुक्तम् । अतिदिष्टं हि वैद्यस्य शूद्रत्वं क्षत्त्रियादिवदिति । तस्मात् क्षत्त्रविशोस्तुल्यो वैद्यः शूद्रस्य पूजित इति ॥ * ॥
“युगे युगे कर्म्मणैवोत्कर्षापकर्षावाह मनुः । तपोरीतिप्रभावैश्च ते गच्छन्ति युगे युगे ॥” मनुष्येष्विह जन्मत इति ॥ “अम्बष्ठेष्वमृताचार्य्यः ख्यातोऽभूद्भुवनत्रये । सिद्धविद्याह्वयां कन्यां स्वर्वैद्यस्य तु मानसीम् ॥ उपयेमे महौजा यश्चिकितसतकया श्रुतः । अथैतस्य वरेणैव ख्याता वैद्या महौजसः ॥ सेनो दासश्च गुप्तश्च दत्तो देवः करो धरः । राजः सोमश्च नन्दिश्च कुण्डश्चन्द्रश्च रक्षितः ॥ सन्ताना वहवश्चैषां बभूवुश्च चिकित्सकाः । कुलानुरूपतश्चैषां जाताः पद्धतयोऽप्यमूः ॥ तेषां प्रशंसा निन्दा च बभूव स्वेन कर्म्मणा । उत्तमौ सेनदासौ च गुप्तदत्तौ तथैव च ॥ देवः करश्च मध्यस्थौ राजसोमौ कुलाधमौ । नन्दिप्रभृतयो निन्द्या लुप्तपद्धतयोऽपि च ॥ केचिज्जात्या परिख्यातास्तथा वृत्त्यनुसारतः । सर्व्वासामेव जातीनां वृत्तिरेव गरीयसी । वृत्तिः स्वर्ग्या च पथ्या च वृत्त्या जातिः प्रव- र्त्तते ॥” इति प्राचीनकुलपञ्जिकाधृतव्यासवचनानि ॥ इति वैद्योत्पत्तिकथनम् ॥ * ॥
अथ वैद्यानां गोत्राणि । “अष्टाविंशदमी गोत्राः सर्व्वेषां भिषजामपि । प्रत्येकन्ते विलिख्यन्ते सेनदासादितः क्रमात् ॥ धन्वन्तरिश्च शक्त्रिश्च तथा वैश्वानराद्यकौ । मौद्गल्यकौशिकौ कृष्णात्रेय आङ्गिरसोऽपि च ॥ अष्टौ गोत्राणि सेनानां दासानां तदनन्तरम् । मौद्गल्योऽथ भरद्वाजः शालङ्कायन एव च ॥ शाण्डिल्यश्च वशिष्ठश्च वात्स्यश्च षडमी मताः । गुप्तानां त्रीणि गोत्राणि काश्यपो गौतमस्तथा ॥ सावर्णिरपि दत्तानां चत्वारः परिकीर्त्तिताः । कौशिकः काश्यपश्चैव शाण्डिल्यश्चापि तत्परः ॥ मौद्गल्य इति विज्ञेयाश्चत्वारो देवसम्भवाः । आत्रेयकृष्णात्रेयौ च शाण्डिल्य आलमालकः ॥ धरस्य काश्यपः प्रोक्तो भरद्वाजश्च कुण्डजः । काश्यपो रक्षितस्यैको गोत्रा एते प्रकीर्त्तिताः ॥ दत्तानामाद्यगोत्राणां देशभेदेऽस्ति सन्ततिः । एवमात्रेयगोत्रोऽपि दत्तो देशान्तरे श्रुतः ॥ दत्ताः कृष्णात्रेयगोत्रा दृश्यन्ते बहवस्तथा । तस्माद्दत्तस्य गोत्राणि सप्त ज्ञेयानि पण्डितैः ॥ कराणां काश्यपो गोत्रो वात्स्यमौद्गल्यकावपि । देशभेदे हि विद्यन्ते तत्करः सप्तगोत्रकः ॥ राजः काश्यपगोत्रोऽप्यस्ति तद्राजस्त्रिगोत्रकः । श्रूयन्ते च जामदग्न्यगोत्रा देशान्तरे धराः ॥ बहवोऽपि भरद्वाजगोत्रजाः सन्ति रक्षिताः । इन्द्रादित्यौ परौ यौ द्वौ वैद्यौ गोत्रास्तयोरिमे ॥ इन्द्रस्य काश्यपो गोत्र एक एव प्रकीर्त्तितः । आदित्यानामिमौ गोत्रावादित्यकौशिकौ स्मृतौ ॥ पञ्चाशदेते विख्यातास्तस्माद्गोत्रा भिषक्कुले । यत्तु देशान्तरे गोत्रमन्यत् किमपि च श्रुतम् । दत्तादीनां न तत् प्रोक्तमप्रसिद्धमतीव तत् ॥” * अथ पञ्जिकान्तरोक्तराढीयवैद्यकुलाष्टकीय- गोत्रसंख्याश्रेष्ठत्वादि लिख्यते । “काञ्जीशाद्वुषिसेनस्य गोत्राण्यष्टौ भवन्ति च । शक्त्रिधन्वन्तरी श्रेष्ठौ मध्यौ वैश्वानराद्यकौ । मौद्गल्यकौशिकौ कृष्णात्रेय आङ्गिरसोऽधमाः ॥” अथ राढीयाष्टगृहवैद्यानां प्रवरानाह । “प्रवराः पञ्च सेनानां धन्वन्तरिकुलोद्भुवाम् । विनिर्द्दिष्टा यथा ते च धन्वन्तर्य्यपराशरौ ॥ नैयध्रुवश्चाङ्गिरसो बार्हस्पत्य इति क्रमात् । शक्त्रिगोत्रे त्रयः शक्त्रिपराशरवशिष्ठकाः ॥ प्रवराः पञ्च दासानामौर्व्वच्यषनभार्गवाः । जामदग्न्यश्चाप्नुवानः प्रोक्ता मौद्गल्यगोत्रजाः ॥ गुप्तानां त्रय एवैते काश्यपोऽप्यपसारकः । नैयध्रुवोऽमी प्रवराः काश्यपान्वयसम्भुवाम् ॥ दत्ते त्रयं कौशिकानां शाण्डिल्यासितदेवलाः । कृष्णात्रेयो वशिष्ठश्च आत्रेयश्चेति ते त्रयः ॥ दत्तानां प्रवरा एते दत्तात्रेयकुलोद्भुवाम् । आत्रेयगोत्रजातानां देवानाञ्च तथा त्रयः ॥ आत्रेय आङ्गिरसको बार्हस्पत्य इति क्रमात् । करे भरद्बाजगोत्रे त्रयोऽमी प्रवराः स्मृताः ॥ भरद्वाजो भार्गवश्च च्यवनश्च क्रमादमी । राजवंशे वात्स्यगोत्रे कथिताः प्रवरास्त्रयः ॥ वात्स्येऽसितस्तथा मार्कण्डेय एवं क्रमादिति । अथ कौशिकगोत्रस्य सोमस्य प्रवरास्त्रयः ॥ कौशिकः काश्यपश्चैव भार्गवश्चेत्यमी क्रमात् । सेनादीनामनुक्ता ये आद्यगोत्रादिसम्भुवाम् ॥ प्रवरास्तेऽपि विज्ञेयास्तत्तत्कुलभुवां मुखात् । नन्द्यादीनां वरेन्द्रेषु चतुर्णां प्रवराश्च ये । विज्ञेयास्ते च निखिलास्तेषां कुलभुवां मुखात् ॥” इति वैद्यानां प्रवराः ॥ * ॥
अथ वैद्येषु राढीयादिकथनम् । “सेनो दासश्च गुप्तश्च दत्तो देवः करस्तथा । राजसोमावपीत्यष्टौ राढीयाः परिकीर्त्तिताः ॥ नन्दिश्चन्द्रो धरः कुण्डो रक्षितश्चेति पञ्च ये । ते वरेन्द्रेषु विख्याता दासदत्तकरा अपि ॥ राढीया भिषजो ये ये प्रायस्ते वङ्गगा अपि । नन्द्यादयो महाराष्ट्रे निवसन्ति च केचन ॥” तथा च पञ्जिकान्तरे । “सेनो दासश्च गुप्तश्च पञ्च दत्तादयस्तथा । अष्टौ राढासु विख्याताः प्रायोऽमी वङ्गगा अपि ॥” तथान्यत्र । “नन्दिचन्द्रधरदत्तरक्षिता- स्ते स्वनामनि वरेन्द्रविश्रुताः । बीजिपूरुष इहैव वक्ष्यते तत्कुलं खलु वरेन्द्रजं पुनः ॥” तथा हि नारायणदासोऽन्तरङ्गखानश्च । “दासो दत्तो धरश्चैव नन्दिकुण्डौ करस्तथा । चन्द्रश्च रक्षितश्चेति वरेन्द्रकुलमष्टकम् ॥” इति ॥ तथान्यत्र । “अष्टौ सेनादयो राढे वङ्गेष्वपि वसन्त्यमी । नन्द्यादयो महाराष्ट्रे लुप्तपद्धतयोऽपि च । केचिज्जात्या परिख्याता दृष्टा देशान्तरेष्वपि ॥” इति ॥ “सम्बन्धः स्तूयते सर्व्वैरेकदेशनिवासिनोः । निन्द्यते किल सम्बन्धो भिन्नदेशनिवासिनोः ॥” इति वैद्येषु राढीयादिकथनम् ॥ * ॥
अथ सेनादीनां पूर्व्वस्थानमाह । “श्रीकाञ्जीशा गोनगरं करङ्ककोठ एव च । मोरशासनकान्तारौ समानुस्थानमेव च ॥ मेढ्यशासनमप्यन्यो यासग्रामस्तथैव च । अष्टानां सेनमुख्यानां राढायां स्थानमष्टकम् ॥” तथाह दुर्ज्जयः । “काञ्जी गोरं करङ्कश्च मोरकान्तासमानुकाः । मेढ्यो मालश्च राढायां वैद्यानां कुलमष्टकम् ॥” इति वैद्यानां पूर्ब्बस्थानकथनम् ॥ * ॥
अथ स्थानभेदेन सेनादिभेदमाह । “ऊनविंशतिधा सेना अष्टाविंशतिधा पुरम् । भवन्ति भेदेनैतेषां वक्ष्यते कुललक्षणम् ॥ एको विनायकः सेनो भेदेन नवधाभवत् । मालञ्चो धलहण्डीयः खानाजः सेनहाटिकः ॥ नारहट्टो निरोलीयस्तथा मङ्गलकोठजः । रायिग्रामी वैतजीयो नव वैनायका अमी ॥ विशेषतो विनिर्दिष्टा ज्ञेयाश्चान्यस्थलोद्भवाः । सामान्यस्थानकथने सम्बन्धभाषणे तथा । सर्व्वेषामेव वैद्यानामितरेषामयं क्रमः ॥” इति विनायकसेनवंश्यनिर्णयः ॥ “एकः पुनर्गयीसेनो भेदेनैव चतुर्विधः । विषपाडाभवः श्रेष्ठस्तिकायिपुरजस्तथा । अन्यः कडयिसम्भूतो धाडाग्रामी ततः परः ॥” इति गयीसेनवंश्यनिर्णयः ॥ “एको राघवसेनोऽभूत् खण्डग्रामेण विश्रुतः । स खण्डज इति ख्यातो नापरा तस्य च स्थली ॥” इति राघवसेनवंश्यनिर्णयः ॥ “राजा विमलसेनोऽभूत् सेनभूमिकृताश्रयः । स सेनभूमौ विख्यातो नापरं तस्य च स्थलम् ॥” इति राज्ञो विमलसेनस्य वंश्यनिर्णयः ॥ “पात्रदामोदरः सेनः पात्रः शिखरभूपतेः । असौ शिखरभूजातो नापरं तस्य च स्थलम् ॥” इति पात्रदामोदरवंश्यनिर्णयः ॥ “विनसेनोऽपि यस्त्वेको धलभूमिकृताश्रयः । स एव धलभूमिष्ठो नापरा तस्य च स्थली ॥” इति विनसेनवंश्यनिर्णयः ॥ “सप्तमो वुषिसेनो यो वङ्गभूमौ प्रतिष्ठितः । हाण्डियाग्रामसम्भूतस्तन्नाम्ना तस्य तत्कुलम् ॥” इति हाण्डियावुषिसेनवंश्यनिर्णयः ॥ इति धन्वन्तरिगोत्रजातानां सप्तविधानां सेनानां भेदेनाष्टादशप्रकारनिर्णयः ॥ “श्रीवत्ससेनप्रमुखाः षडमी शक्त्रिगोत्रजाः । भेदेन सप्तधा ज्ञेया यथाक्रमममी पुनः ॥ एकः श्रीवत्ससेनोऽभूत्तेहट्टग्रामविश्रुतः । तेहदृज इति ख्यातो नापरं तस्य च स्थलम् ॥” इति श्रीवत्ससेनवंश्यनिर्णयः ॥ “एकः शियालसेनोऽसौ भेदेन द्बिविधोऽभवत् । पोडागाच्छाभवः श्रेष्ठः परः पोखरियाभवः ॥” इति शियालसेनवंश्यनिर्णयः ॥ “एको यः पुरुसेनोऽभूद्भुठिनागडिमाश्रितः । भूठिनागडिजत्वेन ख्यातोऽसौ नापरं स्थलम् ॥” इति पुरुसेनवंश्यनिर्णयः ॥ “चन्द्रसेनोऽपरस्त्वेकश्चन्द्रद्वीपनिवासकृत् । शक्त्रिगोत्रसमुद्भूत इदीलपुरमाश्रितः ॥” इति चन्द्रसेनवंश्यनिर्णयः ॥ “एको मुण्डीरसेनोऽसौ स्वर्णपीठीनृपाश्रयात् । स एव स्वर्णपीठीति विख्यातो मल्लभूभवः ॥” इति मुण्डीरसेनवंश्यनिर्णयः ॥ “रामसेनः परस्तस्यैवान्तर्भूतो बभूव यः । स मल्लभूमिवसतौ विदितानेकपौरुषः ॥” इति शक्त्विगोत्रजातानां श्रीवत्ससेनप्रमुखानां षण्णां सप्तप्रकारनिर्णयः ॥ “आद्यसेनस्तु षड्बीजी भेदेन विविधोऽभवत् । नपाडासम्भवस्त्वेकः शालग्रामभवोऽपरः ॥ मानकरीय एवान्यस्त्रय आद्याः प्रकीर्त्तिताः । आद्यर्षिगोत्रसम्भूताः स्वतन्त्राः सर्व्व एव हि ॥” इति सकलसेनानां भेदनिर्णयः ॥ * ॥
अथ दासानां भेदमाह । “पञ्चदशविधा दासास्तेऽमी विंशतिधा पुनः । एकः पुनश्चायुदासो भेदेन द्विविधोऽभवत् । एकस्तेहट्टसम्भूतो मालिकाहारजः परः ॥” इति चायुवंश्ये द्विविधनिर्णयः ॥ “पन्थदासः पुनस्त्वेको भेदेन पञ्चधाभवत् । वालिनाछीभवश्चैकः परो मण्डलजानिकः । मौडेश्वरभवः पालिग्रामजः पाजनौरजः ॥” इति पन्थवंश्ये पञ्चविधनिणयः ॥ “एकोऽपरः कायुदासो वङ्गभूमौ प्रतिष्ठितः । कोग्रामीण इति ख्यातो दासो मौद्गल्यगोत्रजः ॥” इति कायुदासवंश्यनिर्णयः ॥ भोयीदासोऽपि तत्पुत्त्रौ ख्यातौ दीघलकेकरौ । अमी त्रयो वङ्गभूमौ प्रसिद्धाः सर्व्व एव हि ॥” इति भोयीदासस्य तत्पुत्त्रयोश्च वंश्यनिर्णयः ॥ “एको वराहदासोऽसौ वौहारिग्रामवासकृत् । स वौहारिजदासोऽपि मतो मौद्गल्यगोत्रजः ॥” इति वौहारीयवराहदासवंश्यनिर्णयः ॥ “नृसिंहनामदासौ द्वौ वङ्गदेशे प्रतिष्ठितौ । तौ वङ्गजाविति ख्यातौ कुलकार्य्यपरायणौ ॥” इति नृसिंहदासयोर्वंश्यनिर्णयः ॥ “वीरदासोऽपि यस्त्वेकः स वङ्गज इति स्मृतः । तत्रैव वङ्गे सम्बन्धस्तस्याभूद्बरकन्ययोः ॥” इति वीरदासवंश्यनिर्णयः ॥ “ख्यातः पाथरडाग्रामे रामदासोऽपि तादृशः । सूनवस्तस्य चत्वारो बीजिनस्तेपि विश्रुताः ॥ ख्याता डभेड-गाभेड-धाड-वीडालदासकाः । मौद्गल्यगोत्रसम्भूताः स्वतन्त्राः सर्व्व एव हि ॥” इति रामदासस्य तत्पुत्त्राणाञ्च वंश्यनिर्णयः ॥ इति मौद्गल्यगोत्रजानां सकलदासानां पञ्च- दशप्रकाराणां भेदेन विंशतिप्रकारनिर्णयः ॥ * अथ गुप्तानां भेदमाह । “गुप्ताश्च षड्विधा भेदास्त्रयोदशविधाः पुनः । काश्यपान्वयसंभूताः स्वतन्त्राः सर्व्व एव हि ॥ एकः पुनः कायुगुप्तो भेदेनाष्टविधोऽभवत् । वराह नगरीयश्च श्रेष्ठोऽभूत् कुलकर्म्मणि ॥ पणिनालाभवश्चान्यस्तथैव कुलशीलवान् । वाराशतसमुद्भूतस्तृतीयस्तदनन्तरम् ॥ नीलगुप्तभवा ये ते निरोलत्रिपुराश्रिताः । भद्रखालीनिवासस्थाः कायुगुप्तोद्भवाश्च ये ॥ माटियारीभवाः केचिल्लोकगुप्तस्य वंशजाः । पश्चिमस्थानमाश्रित्य केचित्सन्ति निजेच्छया ॥” इति कायुगुप्तवंश्येऽष्टविधनिर्णयः ॥ “परमेश्वरगुप्तो यः श्रेष्ठस्तद्बंशसम्भवः । योऽभूत्त्रिपुरगुप्तोऽसौ धौडालाविहितस्थितिः ॥” इति धौडालीयत्रिपुरगुप्तवंश्यनिर्णयः ॥ “परमेश्वरगुप्तस्य वंशजौ द्बौ प्रतिष्ठितौ । भीँपुरीखाडिग्रामस्थौ महत्स्वल्पाधि- कारिणौ ॥” इति महाधिकारिस्वल्पाधि