वाचस्पत्यम्
वैद्यनाथ || पु० देशविशेषे “करवीरे महालक्ष्मीरुमा देवी विनायके । अरोगा वैद्यनाथे तु महाकाले महेश्वरो” मात्स्ये । “वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे! । तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति” शक्ति- सङ्गमतन्त्रे ७ प० । २ भैरवविशेषे “हार्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः । देवता जयदुर्गाख्या नेपाले जानुनी मम” तन्त्रचूडा० । ३ शिवलिङ्गभेदे “हरिद्रानमरे यत्र वैद्यनाथो महेश्वरः । तत्राक्षयो विल्ववृक्षः स्वर्णवृक्षः उदाहृतः” वृहद्धर्मपु० ११ अ० । “झारखण्डे वैद्यनाथो वक्रेश्वरस्तथैव च । वीरभूमौ सिद्धिनाथो राढे च तार- केश्वरः” इति महालिङ्गेश्वरतन्त्रे ।
शब्दकल्पद्रुमः
वैद्यनाथः || पुं, देशषिशेषः । यथा, —
“करवीरे महालक्ष्मीरुमादेवी विनायके । अरोगा वैद्यनाथे तु महाकाले महेश्वरी ॥” इति मात्स्ये गौरीनामाष्टशतं १३ अध्यायः ॥ (तथा देवीभागवते पीठस्थान माहात्म्ये । ७ । ३० । ७१ ॥)
अपि च । “वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे । तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति ॥” इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ भैरवविशेषः । यथा, —
“हार्द्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः ॥ देवता जयदुर्गाख्या नेपाले जानुनी मम ॥” इति तन्त्रचूडामणौ पीठनिर्णयः ॥ अपि च । “हरिद्रानगरे यत्र वैद्यनाथो महेश्वरः । तत्राक्षयो विल्ववृक्षः स्वर्णवृक्ष उदाहृतः ॥” इति बृहद्धर्म्मपुराणे ११ अध्यायः ॥ अन्यच्च । “झारखण्डे वैद्यनाथो वक्रेश्वरस्तथैव च । वीरभूमौ सिद्धिनाथो राढे च तारकेश्वरः ॥” इति महालिङ्गेश्वरतन्त्रे पीठादिक्रमेण शिव- शतनामस्तोत्रम् ॥