वाचस्पत्यम्
वैद्यसिंही || स्त्री वैद्यस्य सिंहीव । वासकवृक्षे शब्द च० ।
शब्दकल्पद्रुमः
वैद्यसिंही || स्त्री (वैद्ये वैद्यशास्त्रोक्तौषधादौ सिंहीव प्रभूतवीर्य्यवत्त्वात् ।) वासकवृक्षः । इति शब्दरत्नावली ॥