वाचस्पत्यम्
वैधहिंसा || स्त्री कर्म० । वेदविहितहिंसायाम् “या वेदवि- हिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्यात् वेदात् धर्मो हि निर्बभौ” मनुः । अत्र नियते- त्युपादानात् नित्ये पश्विष्ट्यादौ हिंसाया अहिंसात्वं न तु काम्येऽपीति सम्प्रदायविदः । पिष्टपशुमीमांसायाञ्च तथैवोक्तं “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथा” मनुना सङ्गे कामनायां पिष्टपशूनामेव विधानात् । विशेषतः कलौ “मांसदानं तथा श्राद्धे” “अश्वालम्भं गवालम्भम्” इति च कलिवर्ज्येषूक्तेः काम्यबलिदानादि निषेधः । हिसाया अनर्थसाधनत्वेऽपि वैधहिंसाया अर्थ- साधनत्वम् वैद्यकोक्तसंस्कारभेदेन विषस्येवेति बोध्यम् । ति० त० मतभेदेन च वैधहिंसा उभयरूपत्वं निरूपितं यथा “मा हिंस्यात् सर्वाभूतानि” इत्यत्र सर्वशब्दस्य व्याप- कार्थपरतया एतद्विधिमनुलङ्घ्य “वायव्यं श्वेतमाल- भेत्” इत्यादिविधेर्विषयाप्राप्तेरगत्या वैधातिरिक्त- विषयत्वं सर्वा सर्वाणि छन्दसि वेत्यनेन तत्पद सिद्धम् । यदपि नानादर्शनटीकाकृद्भिर्वाचस्पतिमिश्रैस्त- त्त्वकौमुद्यामभिहितं “न च मा हिंस्यात् सर्वा भू- तानि” इति सामान्यशास्त्रं विशेषशास्त्रेण “अग्नीषो- मीयं पशुमालभेत” इत्यनेन बाध्यते इति वाच्यं विरो- धाभावात् विरोधे हि बलीयसा दुर्बलं बाध्यते । न चास्ति विरोधः भिन्नविषयत्वात् । तथा हि मा हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि । अग्नीषोमीयं पशुमालभेतेत्यनेन तु पशुहिंसायाः क्रत्वर्थत्वमुच्यते न त्वनर्थहेतुभावस्तथा सति वाक्यभेदप्रसङ्गात् । न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यति क्रतोश्चोपकरिष्यतीत्यन्तेन, तदपि सांख्यनये । मीमां- सकमते तु विरोध एव तथा हि गुरुनये न खलु सर्व- भूतहिंसाभावविषयकं कार्य्यम् इति निषेधविध्यर्थस्य बाधं विना अग्नीषोमीयपश्वालम्मनविषयकं कार्य्यमिति भाव- विध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा तथास्तु । न च मुख्यपशुयागे पुरुषार्थपशुहिंसनस्यार्थसाधनत्व- मनर्थसाधनत्वञ्चोपपद्यते विरोधात् । वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव कुतो? विधेरेष स्वभावो यत् स्ववि- षयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगम- यति अन्यथाऽङ्गानां प्रधानोपकारकत्वमपि नाङ्गो- क्रियेत । अर्थसाधनत्वं बलवदनिष्टामनूबन्धीष्टसाधनत्वम् अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं न चानयोरेकत्र समावेश इति । अतएवोक्तं “तस्माद्यज्ञे बधोऽबधः” इति । नन्वेवं “श्येनेनाभिचरन् यजेत” इत्यत्र श्ये- नस्य शत्रुबधरूपेष्टसाध वमवगतम “अभिचारो मूल- कर्म च” इति मनूना उपपातकगणमध्य पाठादनिष्ट- सावनत्वमवगतम् । तदेतत् कथमुपपद्यतामिति चेन्मैवं “आततायिनमायान्तं हन्यादेवाविचारयन्” इत्येक० वाक्यतया आततायिस्थले इष्टसाधनत्वम् अनाततायि- स्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध इति गुरुचरणाः” ।