शब्दकल्पद्रुमः
वैधात्री || स्त्री (विधातुरियमिति । विधातृ + अण् । ङीप् ।)
ब्राह्मी । इति राजनिर्घण्टः ॥ (विधातृ- सम्बन्धिनि, त्रि । यथा, राजतरङ्गिण्याम् । ४ । ४१३ । “अभङ्गुरास्तेऽभिमानास्तस्यैवासन् मनस्विनः । अभ्यवर्त्तत यैरेष वैधात्रीरपि वामताः ॥”)