वाचस्पत्यम्
वैधेय || त्रि० विधीयतेऽसौ वि + धा—यत् ततः स्वार्थे अण् । मूर्खे अमरः ।
शब्दकल्पद्रुमः
वैधेयः || त्रि (विधिं पद्धतिमेवानुसृत्य व्यवहरति । विधि + ढक् । यद्वा, विधेये कर्त्तव्ये अनभिज्ञः । विधेय + अण् । यद्बा, विरुद्धं धेयमस्य । ततः स्वार्थे अण् । पद्धतिमाश्रित्य क्रियाकारित्वात् युक्तायुक्तविवेकशून्यत्वाच्च तथात्वमस्य ।)
मूर्खः । इत्यमरः । ३ । १ । ४८ ॥ (यथा, राजतर- ङ्गिण्याम् । ६ । १५९ । “पुंश्चली जाल्मवैधेयबालकाद्रोग्धृनिभरा । समभूदप्रवेशार्हा राजपर्षन्मनस्विनाम् ॥”)
विधिसम्बन्धी विधेयसम्बन्धी च ॥