संस्कृत-शब्दकोशः

वैध्यत वैनयिक

वैनतेय

वाचस्पत्यम्

वैनतेय ||‍ पु० विनतायाः अपत्यं ढक् । १ गरुडे अमरः २ अ- रुणे च मत्स्यपु० ।


शब्दकल्पद्रुमः

वैनतेयः || पुं, (विनताया अपत्यमिति । विनता + “स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।)
गरुडः । इत्यमरः ॥ (यथा, देवीभागवते । २ । १२ । २९ । “समानीयामृतं मात्रे वैनतेयः समर्पयत् ॥”)
अरुणः । इति मत्स्यपुराणम् ॥ (विनतापत्य- मात्रे । यथा, महामारते । १ । ६५ । ४० । “तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ । आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्त्तिताः ॥”)



Correction: