वाचस्पत्यम्
वैनाशिक || पु० विनाशमधिकृत्य कृतो ग्रन्थः ठक् । सर्वेषां क्षणभङ्गुरताप्रतिपादके १ बौद्धागमे २ तदभिज्ञे त्रि० । विनाशाय हितम् ठक् । ज्यातिषोक्ते षङ्गाडीचक्रस्थे जन्मनक्षत्रावधित्रयोविंशे ३ नक्षत्रे ४ क्षणिके ५ परतन्त्रे च त्रि० ६ उर्णनाभे पु० मेदि० ।
शब्दकल्पद्रुमः
वैनाशिकं || क्ली (विनाशं सूचयतीति । विनाश + ठक् ।)
नाडीनक्षत्रविशेषः । स तु जन्मर्क्षा- वधित्रयोविंशनक्षत्रम् । यथा । जन्माद्यं कर्म्म ततोऽपि दशमं सांघातिकं षोडशभम् । समु- दयमष्टादशभं विनाशसंज्ञं त्रयोविंशं आद्यात्तु पञ्चविंशं मानसमेवं नरः षडृक्षः स्यात् ॥ तत्फलं यथा, —
“ईहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते । कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे ॥ मूर्त्तिद्रविणबन्धूनां हानिः सांघातिके तथा । संतप्ते सामुदयिके मित्रभृत्यार्थसंक्षयः ॥ वैनाशिके विनाशः स्यात् देहद्रविणसम्पदाम् ॥” इति ज्योतिस्तत्त्वम् ॥ निधनतारा । यथा, —
“वैनाशिकर्क्षे दृष्टं ग्रहणं सुधांशुभास्करयोः । जनयति रोगं बहुधा क्लेशं वित्तक्षयञ्चाशु ॥” वैनाशिकर्क्षे त्रयोविंशनक्षत्रे । इति केचित् । वस्तुतस्तु वैनाशिकपदं निंधनतारापरम् । निधने- ऽपि चेत्येकवाक्यत्वात् । इति तिथ्यादितत्त्वम् ॥
शब्दकल्पद्रुमः
वैनाशिकः || पुं, (विनाशो मतमस्य । विनाश + ठक् । सर्व्वं दृश्यं क्षणिकमिति क्षणिकविज्ञान- वादित्वादस्य तथात्वम् ।)
क्षणिकः । परतन्त्रः । ऊर्णनाभः । इति मेदिनी ॥ विनाशसम्बन्धीये, त्रि ॥