शब्दकल्पद्रुमः
वैपरीत्यलज्जालुः || स्त्री पुं, (वैपरीत्या लज्जालुः ।)
स्वल्पक्षुपबृहत्फला लज्जालुः । यथा, —
“लज्जालुर्व्वैपरीत्यान्या स्वल्पक्षुपबृहत्फला । वैपरीत्या च लज्जालुर्ह्याभिधाने प्रयोजयेत् ॥ लज्जालुर्व्वैपरीत्याह्वः कटुरुष्णः कफापनुत् । रसे नियामकश्चैव नानाविज्ञानकारकः ॥” इति राजनिर्घण्टः ॥