वाचस्पत्यम्
वैभव || न० विभोर्भावः अण् । १ विभुत्वे २ विभूतौ ।
शब्दकल्पद्रुमः
वैभवं || क्ली विभवस्य भावः । विभवशब्दात् ष्णप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, कथासरित्- सागरे । ६६ । १९१ । “सोऽप्यावेद्य यथार्थमम्बरचराधीशः क्षणात् कल्पिता- शेषस्वोचितदिव्यवैभवविधिः सिद्धिप्रभावात्ततः ॥” अतिशयः । यथा, भागवते । ५ । १८ । ११ । “यत्सङ्गलब्धं निजवीर्य्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् ॥” विभोर्भाव इत्यर्थे अण्प्रत्यये ऐश्वर्य्यम् । यथा, भागर्वते । १० । १४ । ३८ । “जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गोचरः ॥”)