वाचस्पत्यम्
वैमात्र || पु० विमातुरपत्यम् अण् । १ सापत्ने भ्रातरि अमर २ तथाभूतभगिन्यां स्त्री ङीप् ।
शब्दकल्पद्रुमः
वैमात्रः || पुं, (विमातुरपत्यमिति । विमातृ + अण् ।) वैमात्रेयः । इति जटाधरः ॥