शब्दकल्पद्रुमः
वैमात्रेयी || स्त्री (विमातुरपत्यं स्त्री । विमातृ + ढक् । ततो डीप् ।) विमातृकन्या । वैमात्रेय- शब्दादीप्प्रत्ययेन निष्पन्नमिदम् ॥