वाचस्पत्यम्
वैयाकरण || त्रि० व्याकरणं वेत्त्यधीते वा अण् । व्याकरणाभिज्ञे ।
शब्दकल्पद्रुमः
वैयाकरणः || त्रि (व्याकरणं वेत्ति अधीते वा । व्याकरण + “अणृगयनादिभ्यः ।” ४ । ३ । ७३ । इति अण् । “नय्वाभ्यां पदान्ताभ्यामिति ।” ७ । ३ । ३ । इति यकारात् पूर्व्वं ऐच् ।)
व्याकरण- वेत्ता । व्याकरणाध्येता । व्याकरणशब्दात् ष्णप्रत्ययेन य्वोर्युमेति इमा णित्त्वे व्रिरिति वृद्धौ च निष्पन्नमिदम् । व्याकरणसम्बन्धी च ॥ (यथा, पाणिनौ । ६ । ३ । ७ । “वैयाकरणाख्यायां चतुर्थ्याः ॥” यथा च महाभारते । ५ । ४३ । ६१ । “सर्व्वार्थानां व्याकरणाद्वैयाकरण उच्यते । तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥”)