संस्कृत-शब्दकोशः

वैयाकरणभार्य वैयाघ्रपद्य

वैयाघ्र

वाचस्पत्यम्

वैयाघ्र ||‍ पु० व्याघ्रचमणा फरिवृतो रथः अण् । व्याघ्रचर्म्म- परिवृते रथे अमरः ।


शब्दकल्पद्रुमः

वैयाघ्रः || पुं, (व्याघ्रस्य विकारः । व्याघ्र + “प्राणि- रजतादिभ्यः ।” ४ । ३ । १५४ । इति अञ् । ततः वैयाघ्रेण चर्म्मणा परिवृतो रथः । “द्वैप- वैयाघ्रादञ् ।” ४ । २ । १२ । इति अञ् ।)
व्याघ्र- चर्म्माच्छादितरथः । तत्पर्य्यायः । द्बैपः २ । इत्य- मरः । २ । ८ । ५२ ॥ (यथा, महाभारते । २ । ५८ । ४ । “अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः । सुचक्रोपस्करः श्रीमान् किङ्किणीजाल- मण्डितः ॥”)
व्याघ्रसम्बन्धिनि, त्रि । यथा, —
“उत्तराभिमुखी भूत्वा निराहारा निरन्तरम् । वैयाघ्रचर्म्मवसना सोर्द्ध्वमूर्द्धानना सती ॥ ज्योतिर्मयं शिवं शान्तं परं शिवकरं परम् ॥” इति कालिकापुराणे ४४ अध्यायः ॥ (यथा च बृहत्संहितायाम् । ४४ । १३ । “पूर्व्वाभिमुखः श्रीमान् वैयाघ्रे चर्म्मणि स्थितो राजा ॥”)



Correction: