वाचस्पत्यम्
वैयासकि || पु० व्यासस्यापत्यम् इञ् कुक्च । व्यासस्यापत्ये शुक्रदेवे ।
शब्दकल्पद्रुमः
वैयासकिः || पुं, (व्यासस्यापत्यम् । “व्यासवरुडनिषा- देति ।” ४ । १ । ९७ । इत्यस्य काशिकोक्त्या इञ् अकञादेशश्च । न य्वाभ्यामिति ऐच् ।)
व्यासस्यापत्यम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, भागवते । १० । १ । १४ । “एवं निशम्य भृगुनन्दन साधुवादं वैयासकिः स भगवानथ विष्णुरातम् । प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं व्याहर्त्तुमारभत भागवतप्रधानः ॥”)