वाचस्पत्यम्
वैर || न० वीरस्य भावः अण् । विरोधे विद्वेषे अमरः । “वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्त्तितम् । स्त्रोकृतं वास्तुजं वाग्ज ससापत्नापराधजम्” । तत्र स्त्रोकृत कृष्णचेदिपयोः । वास्तुजं कुरुपाण्डवयोः । वाग्जं द्रोणद्रुपदयोः । सापत्नं नैसगिकमहिनकुलयोः । अप- राधजं पूजनीब्रह्मदत्तयोः ।
शब्दकल्पद्रुमः
वैरं || क्ली (वीरस्य कर्म्म भावो वा । वीर + अण् ।)
विरोधः । इत्यमरः ॥ (यथा, भागवते । ८ । ७ । ३९ । “बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥”)
तस्य समुत्थानं पञ्च । स्त्रीकृतम् १ यथा कृष्ण- शिशुपालयोः । वास्तुजम् २ यथा कौरव- पाण्डवानाम् । वाग्जम् ३ यथा द्रोणद्रुपदयोः । सापत्नम् ४ यथा मूषिकमार्जारयोः । अप- राधजम् ५ यथा पूजनीब्रह्मदत्तयोः । इति महाभारतम् ॥