वाचस्पत्यम्
वैरिन् || त्रि० वैरमस्त्यस्य इनि । शत्रौ अमरः ।
शब्दकल्पद्रुमः
वैरी || [न्] पुं, (वैरमस्यास्तीति । इनिः ।) शत्रुः । इत्यमरः ॥ (यथा, मनौ । ४ । १३३ । “वैरिणं नोपसेवेत सहायञ्चैव वैरिणः ॥”) वीरसम्बन्धिनि, त्रि ॥