शब्दकल्पद्रुमः
वैरोद्धारः || पुं, (वैरस्योद्धारः ।) कृतापकारस्य प्रत्यपकारः । यथा, — “प्रतिकारः प्रतीकारो वैरनिर्यातनं तथा । निर्यातनं वैरशुद्धिर्वैरोद्धारो निगद्यते ॥” इति शब्दरत्नावली ॥