संस्कृत-शब्दकोशः

वैल्व वैवर्ण्य

वैवधिक

वाचस्पत्यम्

वै(ब)वधिक ||‍ त्रि० वी(ब)वधेन धान्यादिसंग्रहेण व्यवहरति ठक् । वार्त्तावहे नैगमे (दोकानि) अमरः ।


शब्दकल्पद्रुमः

वैवधिकः || त्रि (विवधेन धान्यतण्डुलादिना व्यव- हरति । “विभाषा विवधवीवधात् ।” ४ । ४ । १७ । इति ठक् ।)
विवधेन धान्यतण्डुलादिना व्यवहरति यः । पसारि इति भाषा । (यथा, राजतरङ्गिण्याम् । ६ । ३०८ । “वल्गाभिधा वैवधिकी वल्गामठमकारयत् ॥”)
तत्पर्य्यायः । वार्त्तावहः २ । इत्यमरभरतौ ॥ वार्त्तोवहः ३ । इति शब्दरत्नावली ॥



Correction: