संस्कृत-शब्दकोशः

वैवधिक वैवस्वत

वैवर्ण्य

वाचस्पत्यम्

वैवर्ण्य ||‍ न० विवर्णस्य भावः ष्यञ् । विवर्णत्वे मालिन्ये ।


शब्दकल्पद्रुमः

वैवर्ण्यं || क्ली)
विवर्णस्य भावः ।)
विवर्णता । विवर्णस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्न- मिदम् ॥ (यथा, कथासरित्सागरे । १६ । ६८ । “सा वार्त्ता कर्णमागत्य तस्या वैवर्ण्यदायिनी ॥” तत्तु स्त्रीणां सात्त्विकभावानामन्यतमम् । यथा, साहित्यदर्पणे । ३ । १६६ । “स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥”)



Correction: