संस्कृत-शब्दकोशः

वैवस्वती वैंशतिक

वैवाहिक

वाचस्पत्यम्

वैवाहिक ||‍ त्रि० विवाहाय हितं साधु बा ठक् । १ विवा- हयोग्ये “वैवाहिकीं तिथिं पृष्टाः” इति कुमारः । २ विवाहेन सम्बद्धे कन्यापुत्रयोः श्वशुरे ३ विवाहसम्ब न्धिनि च त्रि० “पञ्चमे सप्तमे वापि येषां वैवाहिकी क्रिया” स्मृतिः ।


शब्दकल्पद्रुमः

वैवाहिकः || पुं, (विवाहाद्भवः । विवाह + ठञ् ।)
कन्यापुत्त्रयोः श्वशुरः । वेयाइ इति वङ्गभाषा ॥ सम्धी इति हिन्दीभाषा । (तत्पर्य्यायः । सम्बन्धी २ ॥ यथा, कौतुकसर्व्वस्वे । ३ । “अस्मन्नामसमानतासखसुतावैवाहिक- श्यालक- श्वश्रूकामुकरथ्यया गतवती न्याय्या तदेषा मम ॥”)
विवाहसम्बन्धिनि, त्रि । यथा, —
“पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया । ते च सान्तानिनः सर्व्वे पतिताः शूद्रतां गताः ॥” इत्युद्बाहतत्त्वम् ॥ अपि च । “कन्याभ्यश्च पितृद्रव्याद्देयं वैवाहिकं वसु । अपुत्त्रकस्य कन्या स्वा धर्म्मजा पुत्त्रवद्धरेत् ॥” इति दायतत्त्वे देवलः ॥ (यथा च मनुः । २ । ६७ । “वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ॥”)



Correction: