वाचस्पत्यम्
वैश्रवण || पु० विश्रवसोऽपत्यम् अण् विश्रवणादेशः । कुवेरे अमरः ।
शब्दकल्पद्रुमः
वैश्रवणः || पुं, (विश्रवणस्यापत्यम् । “शिवादिभ्यो- ऽण् ।” ४ । १ । ११२ । इति अण् ।)
कुबेरः । इत्यमरः ॥ (यथा, महाभारते । २ । १० । २ । “तपसा निर्म्मिता राजन् स्वयं वैश्रवणेन सा ॥” शिवः । यथा, महाभारते । १३ । १७ । १०३ । “धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ॥”)