शब्दकल्पद्रुमः
वैश्या || स्त्री (वैश्य + टाप् ।) वैश्यजातिस्त्री । तत्पर्य्यायः । अर्य्याणी २ अर्य्या ३ । इति जटा- धरः ॥ (यथा, मनौ । ८ । ३८२ । “वैश्यश्चेत् क्षत्त्रियां गुप्तां वैश्यां वा क्षत्त्रियो व्रजेत् ॥”)