वाचस्पत्यम्
वैश्रवणालय || पु० ६ त० । १ वटवृक्षे हेमच० २ कुवेरपुर्य्याञ्च । वैश्रवणावासादयोऽप्यत्र ।
शब्दकल्पद्रुमः
वैश्रवणालयः || पुं, (वैश्रवणस्यालयः ।)
वटवृक्षः । इति हेमचन्द्रः ॥ (यथा, देवीभागवते । ७ । ३० । ८१ । “अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ॥”)
कुबेरपुरी च ॥