वाचस्पत्यम्
वैश्वानर || पु० विश्वेषां नराणामयम् कुक्षिस्थत्वात् अण् पूर्व- दीर्घः । १ वह्नौ २ चित्रकवृक्षे । ३ चेतने च विश्वानरस्याप- त्यमण् । अग्निलोकाधिपे ४ वह्नौ काशीख० १० अ० तत्कथा दृश्या । सर्वदेहाभिमानिनि ५ सर्वात्मयांमिनि परमेश्वरे तदुपासनप्रकारः छान्दो० ६ प्र० दर्शितो यथा “एष वैर- यिरात्मा वैश्वानरः” इत्युपक्रमे “तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेत- मेव’ प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति” “तान् यथोक्तवैश्वानरदर्शनवतो ह उवाच । एतेयूयं वै खल्वित्य- नर्थकौ यूयं पृथगिवापृथक् सन्तमिममेकं वैश्वानरं विद्वांसोऽन्नमत्थ परिच्छिन्नात्मबुद्ध्या एतद्धस्तिदर्शन इव जात्यन्धाः । यस्त्वेतमेवं यथोक्तावयवैर्द्युमूर्द्धादिभि- र्विशिष्टमेवं प्रादेशमात्रं प्रादेशैर्द्युमूर्द्धादिभिः पृथिवी- पादान्तैरध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम् । मुखादिषु वा करणेष्वकर्तृत्वेन मीयत इति प्रादेशमात्रः । द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः । प्रकर्षेण शास्त्रेणादिश्यन्त इति प्रादेशा द्युलोकादय एव तत्परिमाणः प्रादेशमात्रः । शाखान्तरे तु “मूर्द्धा- दिश्चिवुकप्रतिष्ठः” इति प्रादेशमात्रं कल्पयन्ति । इह तु न तथाभिप्रेतः । “तस्य ह वा एतस्यात्मनः” इत्याद्युप- संहारात् । प्रत्यगात्मतयाऽभिविमीयतेऽहमिति ज्ञायत इत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नरान्नयति पुण्यपापानुरूपां गतिम । सर्वात्मैष ईश्वरो वैश्वानरो” विश्वो नर एव वा सर्वात्मत्वात् । विश्वैर्वा नरैः प्रत्य- गात्मतया प्रविभज्य नीयत इति वैश्वानरः । तमेव- मुपास्ते यः सोऽदन्नमन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनो- बुद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति । वैश्वानरवित् सर्वात्मा सन्नन्नमत्ति । न यथाज्ञः पिण्ड- मात्राभिमानः सन्नित्यर्थः” ।
शब्दकल्पद्रुमः
वैश्वानरः || पुं, (विश्वश्चासौ नरश्चेति । “नरे संज्ञायाम् ।” ६ । ३ । १२९ । इति दीर्घः । ततो विश्वानर एव । स्वार्थे अण् । यद्वा, “विश्वान् नरान् इतो लोकात् लोकान्तरं नयति । इद- मर्थेन विश्वानराणां नेतृत्वेन सम्पद्यन्ते वा कर्म्मार्थप्रणेतृत्वेन सम्पादिनोऽस्य वैश्वानरः । ‘अन्येषामपि दृश्यते ।’ ६ । ३ । १३७ । इति दीर्घः । अपि वा विश्वान् जन्तून् अरः । ऋ गतौ इत्यस्य छान्दसत्वात् पदाद्यच् उपपदविभ- क्तेश्चालुक् । सर्व्वाणि भूतानि अरः प्रत्यृतः प्रतिगतः प्रविष्टति विश्वानरः प्राणः । तेन जन्यमानत्वात् तस्यापत्यं वैश्वानरः ॥” इति निघण्टुटीकायां देवराजयज्वा । ५ । १ ।)
अग्निः । (यथा, गीतायाम् । १५ । १४ । “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाभ्यन्नं चतुर्व्विधम् ॥”)
चित्रकवृक्षः । इत्यमरः ॥ अग्नेस्तन्नामकारणं यथा, —
“तथापि दद्मि वो रूपे द्वे द्बे प्रत्येकशोऽधुना । भूतकार्य्येष्वभूतेन देवलोके तु मूर्त्तिना ॥ तिष्ठध्वमपि कालान्ते लयं त्वाविशत् द्रुतम् । शरीराणि पुनर्न्नैवं कर्त्तव्योऽहमिति क्वचित् ॥ मूर्त्तानाञ्च तथा तुभ्यं दद्मि नामानि वोऽधुना । अग्निर्व्वैश्वानरो नाम प्राणापानौ तथाश्विनौ ॥ भविष्यति तथा गौरी हिमशैलसुता तथा । पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति ॥ शरीरधातवस्त्वेते नानाभूतानि एव तु । अहङ्कारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति ॥” इति वाराहे आदित्रेतायां महातपोपाख्यान- नामाध्यायः ॥