संस्कृत-शब्दकोशः

वैष्टुत वैष्णव

वैष्ट्र

वाचस्पत्यम्

वैष्ट्र ||‍ न० विष—ष्ट्रन् णिच्च । १ पिष्टपे उणादि० २ स्वर्गे ३ वायौ ४ विष्णौ च संक्षिप्रसा० ।


शब्दकल्पद्रुमः

वैष्ट्रं || क्ली (विश + “भ्रम्जिगमिनमिहनिविश्यशां वृद्धिश्च ।” उणा० ४ । १५९ । इति ष्ट्रन् वृद्धिश्च ।)
पिष्टपम् । इत्युणादिकोषः ॥ द्यौः । वायुः । विष्णुः । इति संक्षिप्तसारोणादिवृत्तिः ॥



Correction: