वाचस्पत्यम्
वैष्णव || त्रि० विष्णुर्देवताऽस्य तस्येदं वा अण् । १ विष्णू- पासके २ विष्णुसम्बन्धिनि च स्त्रियां ङीप् । ३ वैष्णव्यां शक्तौ “वैष्णवो समरे चैनम्” देवीमा० । “गायत्री वैष्णवी ह्येषा” स्मृतिः । ४ विष्णुधामनि न० । विष्णु- मधिकृत्य कृतो ग्रन्थः अण् । ५ महापुराणभेदे न० विष्णु- पुराणशब्दे ४९३६ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
वैष्णवं || क्ली (विष्णोरिदम् । विष्णु + अण् ।)
होमभस्म । इति शब्दरत्नावली ॥ (महापुराण- विशेषः । यथा, देवीभागवते । ३ । १ । ८ । “त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् ॥”)
विष्णुसम्बन्धिनि, त्रि ॥ (यथा, रघुः । ११ । ८५ । “गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥”)
शब्दकल्पद्रुमः
वैष्णवः || पुं, (विष्णुर्द्देवता अस्य । अण् ।)
विष्णु- मन्त्रोपासकः । विष्णुभक्तः । तत्पर्य्यायः । कार्ष्णः २ हारः ३ । तस्य लक्षणं यथा, —
“गृहीतविष्णुदीक्षाको विष्णुसेवापरो नरः । वैष्णवश्चात्र संग्राह्यः स्कान्दाद्युक्तानुसारतः ॥” तथा च स्कान्दे । “परमापदमापन्नो हर्षे वा समुपस्थिते । नैकादशीं त्यजेद्यस्तु यस्य दीक्षास्ति वैष्णवी ॥ समात्मा सर्व्वजीवेषु निजाचारादविप्लुतः । विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ॥” इति श्रीहरिभक्तिविलासे १२ विलासः ॥ * ॥
अथ श्रीवैष्णवनिन्दादिदोषः । स्कान्दे मार्कण्डेय- भगीरथसंवादे । “यो हि भागवतं लोकमुपहासं नृपोत्तमः । करोति तस्य नश्यन्ति अर्थधर्म्मयशःसुताः ॥” * अथ वैष्णवसमागमविधिः । तेजोद्रविणपञ्च- रात्रे । “वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेद्भुवि । उभयोरन्तरा विष्णुः शङ्खचक्रगदाधरः ॥” * ॥
अथ वैष्णवसन्मानननित्यता । स्कान्दे श्रीमार्क- ण्डेयभगीरथसंवादे । “दृष्ट्वा भागवतं दूरात् संमुखे यो न याति हि । न गृह्णाति हरिस्तस्य पूजां द्वादशवार्षिकीम् ॥” अथ वैष्णवस्तुतिः । स्कान्दे । “धन्योऽहं कृतकृत्योऽहं यद्यूयं गृहमागताः । दुर्ल्लभं दर्शनं नूनं वैष्णवानां यथा हरेः ॥” * ॥
अथ वैष्णवाभिगमनमाहात्म्यम् । स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे । “संमुखं व्रजमानस्य वैष्णवानां नराधिप । पदे पदे यज्ञफलं प्राहुः पौराणिका द्बिजाः ॥” अथ वैष्णवस्तुतिमाहात्म्यम् । तत्रैव । “प्रत्यक्षं वा परोक्षं वा यः प्रशंसति वैष्णवम् । ब्रह्महा मद्यपः स्तेयी गुरुगामी सदा नृणाम् । मुच्यते पातकात् सद्यो विष्णुराह नृपोत्तम ॥” * अथ वैष्णवसम्माननमाहात्म्यम् । तत्रैवामृत- सारोद्धारे । “श्रद्धया दत्तमन्नञ्च वैष्णवाग्निषु जीर्य्यति । तदन्नं मेरुणा तुल्यं भवते च दिने दिने ॥” * ॥
अथ वैष्णवशास्त्रमाहात्म्यम् । स्कान्दे श्रीब्रह्म- नारदसंवादे । “वैष्णवानि च शास्त्राणि ये शृण्वन्ति पठन्ति च । धन्यास्ते मानवा लोके तेषां कृष्णः प्रसीदति ॥” इति च श्रीहरिभक्तिविलासे १० विलासः ॥ तस्य लक्षणमाहात्म्यादि यथा, —
“फलसन्धानरहिता विष्णुभक्ताश्च वैष्णवाः । मत्प्रीतिभक्तिकामास्ते सर्व्वदा सर्व्वकर्म्मसु ॥ गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति । जीवन्मुक्तं वैष्णवन्तं वेदाः सर्व्वे वदन्ति च ॥ पुरुषाणां शतं पूर्व्वं पैतृकञ्च शतं परम् । मातामहस्य च शतं मातरं मातृमातरम् ॥ भगिनीं भ्रातरञ्चैव भागिनेयञ्च मातुलम् । श्वश्रूञ्च श्वशुरञ्चैव गुरुपत्नीं गुरोः सुतम् ॥ गुरुञ्च ज्ञानदातारं मित्रञ्च सहचारिणम् । भृत्यं शिष्यं तथा चेटीं प्रजाः स्वाश्रमसन्निधौ ॥ उद्धरेदात्मना सार्द्धं मन्त्रग्रहणमात्रतः । मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥ तस्य संस्पर्शमात्रेण पूतं तीर्थञ्च भारतम् । तस्यैव पादरजसा सद्यः पूता वसुन्धरा ॥ पादोदकप्लुतं स्थानं तीर्थमेव भवेत् घ्रुवम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ८ अध्यायः ॥ * ॥
अपि च । श्रीशिव उवाच । “शिवमस्तु च साधूनां वैष्णवानां सतामिह । अवैष्णवानामसतामशिवञ्च पदे पदे ॥ ददाति वैष्णवेभ्यश्च यो दुःखं मूर्च्छितो जनः । श्रीकृष्णस्य च संहर्त्ता विघ्नस्तस्य पदे पदे ॥ अवैष्णवानां हृदयं न हि शुद्धं सदा मलम् । श्रीकृष्णमन्त्रस्मरणं मनोनैर्म्मल्यकारणम् ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः । विष्णुमन्त्रोपासनया क्षीयते कर्म्म वै नृणाम् ॥ ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम् । यान्त्यन्योपासकाश्चान्यैः सार्द्धञ्च प्रकृतेर्लये ॥ वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि । विष्णुमन्त्रविहीनेभ्यो द्बिजेभ्यः श्वपचो वरः ॥ परिपक्वाश्चाविपक्वा वैष्णवाः साधवश्च ते । सन्ततं पतितांश्चैव विष्णुचक्रं सुदर्शनम् ॥ यथा वह्रौ शुष्कतृणं भस्मीभूतं भविष्यति । तथा पापं वैष्णवेषु तेजम्विषु हुताशनात् ॥ गुरुवक्त्वाद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति । तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः ॥ प्रशंसितं पितॄणाञ्च शतं मातामहस्य च स्वसोदरांश्च जननीमुद्धरन्त्येव वैष्णवाः ॥ गयायां पिण्डदानेन पिण्डदाः पिण्डभोजिनम् । समुद्धरन्ति पुंसाञ्च वैष्णवाश्च शतं शतम् ॥ मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः । यमस्तस्मान्महाभीतो वैनतेयाद्यथोरगः ॥ निष्पुणन्त्येव तीर्थानि गङ्गादीनि च भारते । कृष्णमन्त्रोपासकाश्च स्पर्शमात्रेण वाक्पते ॥ पापानि पापिनां तीर्थे यावन्ति प्रभवन्ति च । नश्यन्ति तानि सर्व्वाणि वैष्णवस्पर्शमात्रतः ॥ कृष्णमन्त्रोपासकानां रजसा पादपद्मयोः । सद्यो मुक्ता पातकेभ्यो हृष्टा पूता वसुन्धरा ॥ वायुश्च वरुणो वह्निः सूर्य्यः सर्व्वं पुनाति च । एते पूता वैष्णवानां स्पर्शमात्रेण लीलया ॥ अहं ब्रह्मा च शेषश्च साक्षी धर्म्मश्च कर्म्मणाम् । एते हृष्टाश्च वाञ्छन्ति वैष्णवानां समागमम् ॥ फलं कर्म्मानुसारेण सर्व्वेषां भारते भवेत् । न भवेत्तद्वैष्णवे च सिद्धधान्ये यथाङ्कुरम् ॥ हन्ति तेषां कर्म्म पूर्व्वं भक्तानां भक्तवत्सलः । कृपया स्वपदं तेभ्यो ददात्येव कृपानिधिः ॥” इति ब्रह्मवैबर्त्ते प्रकृतिखण्डे ५७ अध्यायः ॥ * ॥
अन्यच्च । श्रीभगवानुवाच । “अहं प्राणा वैष्णवानां मम प्राणाश्च वैष्णवाः । तानेव द्वेष्टि यो मूढो ममासूनां स हिंसकः ॥ पुत्त्रान् पौत्त्रान् कलत्रांश्च राजलक्ष्मीं विधाय च । ध्यायन्ते सन्ततं ये मां को मे तेभ्यः परः प्रियः ॥ परा भक्ता नु मे प्राणा न च लक्ष्मीर्न शङ्करः । न भारती न च ब्रह्मा न दुर्गा न गणेश्वरः ॥ न ब्राह्मणा न वेदाश्च न वेदजननी सुराः । न गोपी न च गोपाला न राधा प्राणतः प्रिया ॥ इत्येवं कथितं सर्व्वं सत्यं सारञ्च वास्तवम् । न प्रशंसापरं तेषां ते च प्राणाधिकाः प्रियाः ॥ मां द्बिषन्ति च ये मूढा ज्ञानहीनाश्च वञ्चिताः । स्वात्मानञ्च न जानन्ति ते यान्ति निरयं चिरम् ॥ ये द्बिषन्ति च मद्भक्तान् प्राणानामधिकप्रियान् । तेषां शास्ताहं तूर्णञ्च परत्र निरयं चिरम् ॥ प्रभवोऽहञ्च सर्व्वेषामीश्वरः परिपालकः । तथापि न स्वतन्त्रोऽहं भक्ताधीनो दिवानिशम् ॥ गोलोके वाथ वैकुण्ठे द्बिभुजञ्च चतुर्भुजम् । रूपमात्रमिदं सर्व्वं प्राणा मे भक्तसन्निधौ ॥ यद्भक्तं भक्तदत्तञ्च भक्षणीयञ्च तन्मम । अभक्ष्यं द्रव्यमन्येन दत्तञ्चेदमृतोपमम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः ॥ अपि च । “सर्व्वान् कामान् परित्यज्य इष्टभक्तिञ्च साधयेत् स एव वैष्णवाचारः कामसङ्कल्पवर्ज्जितः ॥” इत्याचारभेदतन्त्रम् ॥ * ॥
अपरञ्च । “रजस्वलायाः संभोगे कर्म्मक्षेत्रे च भारते । त्वयोक्तञ्च भवेत् पापं नात्र स्वर्गे च सुन्दरि ! कर्म्मक्षेत्रे च तत् कर्म्म यद्वेदोक्तं शुभाशुभम् ॥ न भवेद्वैष्णवानाञ्च ज्वलतां ब्रह्मतेजसा ॥ यथा प्रदीपवह्रौ च शुष्काणि च तृणानि च । भवन्ति भस्मीभूतानि तथा पापानि वैष्णवे ॥ वह्रिसूर्य्यब्राह्मणेभ्यस्तेजीयान् वैष्णवः सदा । रक्षितो विष्णुचक्रेण स्वतन्त्रो मत्तकुञ्जरः ॥ न विचारो न भोगश्च वैष्णवानां स्वकर्म्मणाम् । लिखितं साम्नि कौथुम्यां कुरु प्रश्नं बृहस्मतिम् ॥ अस्मांश्च सर्व्वे जानन्ति चन्द्रवंश्यांश्च वैष्णवान् । देवमन्यं न सेवन्ते चन्द्रवंश्या हरिं विना ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६ अध्यायः ॥ अपि च । सूत उवाच । “अथ वेण इयाजाथ सोऽश्वमेधेन भूपतिः । ब्राह्मणेभ्यो ददौ दानं नानारूपमनेकधा ॥ जगाम वैष्णवं लोकं सकायो जगतीपतिः । विष्णुना सह धर्म्मात्मा नित्यमेव प्रवर्त्तते । एतत्ते सर्व्वमाख्यातं चरितं तस्य भूपतेः ॥ यद्वेणो वैष्णवद्वेषी सर्व्वघर्म्मबहिष्कृतः । पृथुना पुत्त्रतीर्थेन पवित्रोऽगात् परं पदम् ॥ सत्पुत्त्रं परमं तीर्थं प्राप्य मुच्यन्ति पूर्ब्बजाः । पितापि ऋणमुक्तः स्यात् जाते पुत्त्रे महात्मनि ॥ वैष्णवो यदि पुत्त्रः स्यात् स तारयति पूर्ब्बजान् । पितॄनधस्तना वंशास्तारयन्त्यतिपावनाः ॥” इति पाद्मे भूमिखण्डे १२० अध्यायः ॥ * ॥
अथ वैष्णवधर्म्मतत्कर्त्तव्यपञ्चविधपूजे । यथा, — श्रीपार्व्वत्युवाच । “वैष्णवानाञ्च यद्धर्म्मं कर्म्मापि तस्य तद्बद । यत् कृत्वा मानवाः सर्व्वे भवाम्भोधौ तरन्ति वै ॥ ईश्वर उवाच । अथ द्बादश शुद्धिञ्च वैष्णवानामिहोच्यते । गृहोपसर्पणञ्चैव तथानुगमनं हरेः ॥ भक्त्या प्रदक्षिणञ्चैव पादयोः शोधनं पुनः ॥ १ ॥ २ पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः । करयोः सर्व्वशुद्धीनामियं शुद्धिर्विलिख्यते । ३ । ४ ॥ तन्नामकीर्त्तनञ्चैव गुणानाञ्चैव कीर्त्तनम् । भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते ॥ ५ ॥ तत्कथाश्रवणञ्चैव तस्योत्सवनिरीक्षणम् । श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते । ६ । ७ । ८ । ९ ॥ पादोदकञ्च निर्म्माल्यं मालानामपि धारणम् । उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुनः ॥ १० ॥ आघ्राणं गन्धपुष्पादेर्निर्माल्यस्य तपोधने । विशुद्धिः स्यादनन्तस्य घ्राणस्यापि विधीयते । ११ । १२ ॥ तत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् । तदेव पावनं लोके तद्धि सर्व्वं विशोधयेत् ॥ * ॥
पूजा च पञ्चधा प्रोक्ता तासां भेदान् शृणुष्व मे । अभिगमनमुपादानं योगः स्वाध्याय एव च ॥ इष्टाः पञ्चप्रकारार्च्चाः क्रमेण कथयामि ते । तत्राभिगमनं नाम देवतास्थानमार्जनम् ॥ उपलेपननिर्म्माल्यदूरीकरणमेव च । १ । उपादानं नाम गन्धपुष्पादिचयनं यथा ॥ २ ॥ इष्टा नाम हि चेष्ठादेः पूजनञ्च यथार्थतः । ३ । स्वाध्यायो मन्त्रराजस्य अर्थसन्धानतो जपः ॥ सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा । तन्नामशास्त्राभ्यासश्च स्वाध्यायः परिकीर्त्तितः ॥ ४ ॥ योगो नाम सुदेबस्य चात्मने यैव भावना । ५ । इति पञ्चप्रकारार्च्चाः कथितास्तव सुव्रते ॥” इति पाद्मे पातालखण्डे १० अध्यायः ॥ * ॥
अथ वैष्णवानां खाद्याखाद्यम् । “सायं प्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा । विष्णुभुक्तावशिष्टेन दिनपापात् प्रमुच्यते ॥ अन्नं ब्रह्मा रसो विष्णुः खादयन्नाम चोच्चरन् । एवं ज्ञात्वा तु यो भुङ्क्ते सोऽन्नदोषैर्न लिप्यते ॥ अलावुं वर्त्तुलाकारं मसूरञ्च सवल्कलम् । तालं शुक्लन्तु वार्त्ताकुं न स्वादेद्वैष्णवो जनः ॥ वटाश्वत्थार्कपत्रेषु कुम्भीतिभ्दुकपत्रयोः । कोविदारकदम्बे च न खादेद्वैष्णवो नरः ॥ श्रावणे वर्जयेच्छक्तुं दधि भाद्रपदे त्यजेत् । दुग्धन्तु आश्विने मासि कार्त्तिके चामिषं त्यजेत् ॥ दुग्धमन्नञ्च जम्बीरं यद्विष्णोरनिवेदितम् । बीजपूरञ्च शाकञ्च प्रत्यक्षलवणन्तथा ॥ यदि दैवाच्च भुज्यन्ते तदा तन्नामकं स्मरेत् ॥ कलायं कङ्गुधान्यानि शाकञ्च हिलमोचिकाम् । षष्टिकाकालशाकञ्च मुस्तकं क्रमुकं तथा ॥ लवणे सैन्धवं प्रोक्तं वचा च दधिसर्पिषी । पयोऽनुद्धृतसारञ्च पनसाम्रे हरीतकी ॥ पिप्पलीजीरकञ्चैव नागरङ्गकतिन्तिडी । कदलीलवलीधात्रीफलान्यगुडमैक्षवम् । अतैलपक्वं भुञ्जीत हविष्येषु प्रचक्षते ॥” इति पाद्मे पातालखण्डे ११ अध्यायः ॥ * ॥
अथ वैष्णवलक्षणविशेषादिः । “माहात्म्यमथ भक्तानां यत् कार्य्यं यच्च लक्ष- णम् । करणीयं हरेर्विप्र सावधानमनाः शृणु ॥ हरिरेव सदा सेव्यो नान्यो यस्य महात्मनः । लोकस्य जगदाराध्यो हरिभक्तः स उच्यते ॥ अनन्यनिर्म्माल्यभुजो भक्तास्तेऽनन्यमानसाः । गोविन्दोपासका ये तु नित्यं देवान्तरं विना ॥ अनन्यधिषणोऽनन्यहृदयोऽनन्यसेवकः । केवलं हरिसेव्यङ्ग स भक्तः परिकीर्त्तितः ॥ सत्त्वं सत्त्वाश्रयं सत्त्वगुणं सेवेत केशवम् । योऽनन्यत्वेन मनसा सात्त्वतः समुदाहृतः ॥ सर्व्वदेवान् परित्यज्य नित्यं भगवदाश्रयः । रतस्तदीयसेवायां स भागवत उच्यते ॥ विहाय काम्यकर्म्मादीन् भजेदेकाकिनं हरिम् । सत्यं सत्त्वगुणोपेतो भक्त्या तं सात्त्वतं विदुः ॥ मुकुन्दपादसेवायां तन्नामश्रवणेऽपि च । कीर्त्तने च रतो भक्तो नाम्नः स्यात् स्मरणे हरेः ॥ वन्दनार्च्चनयोर्भक्तिरनिशं दास्यसख्ययोः । रतिरात्मार्पणे यस्य दृढानन्तस्य सात्त्वतः ॥ स्मर्त्तव्यः कीर्त्तनीयश्च श्रोतव्यः पूज्य एव च । यस्यैको विष्णुराराध्यो वैष्णवः समुदाहृतः ॥ यथालब्धोऽपि सन्तुष्टः समचित्तो जितेन्द्रियः । हरिपादाश्रयो लोके विप्राः साधुरनिन्दकः ॥ निर्व्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः । निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥ लोभमोहमदक्रोधकामादिरहितः सुखी । कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः समदर्शनः ॥ यद्विष्णूपासना नित्यं विष्णुर्यस्येश्वरो मुने । पूज्यो यस्यैकविष्णुः स्यादिष्टो लोके स वैष्णवः । हरेः सर्व्वावताराणां मत्स्यादीनामुपासकाः । तन्मन्त्रेष्टा अनन्याश्चेद्वैष्णवास्ते न संशयः ॥ यदिष्टो रघुनाथस्तु नृसिंहो वामनो हरिः । एतन्मन्त्रो वराहादिर्वासुदेवः स वैष्णवः ॥ विष्णोरुपासको दासस्तन्मन्त्रेष्टस्तदाशयः । तमाहुर्वैष्णवं लोके विष्णुसेवापरायणम् ॥ साध्वी यथा पतिं नारी नान्यं जानाति तं विना । जगदीशं तथानन्यो यदि विष्णुं स वैष्णवः ॥ समचित्तो मुनिः पूतो गोविन्दचरणाश्रयः । सर्व्वभूतदयः कार्ष्णो विवेकी साधुरुत्तमः ॥ कृष्णार्पितप्राणशरीरबुद्धिः शान्तेन्द्रियस्त्रीसुतसम्पदादिः । आसक्तचित्तः श्रवणादिभक्ति- ष्वस्येह साधुः सततं हरेर्यः ॥ कृष्णाश्रयः कृष्णकथानुरक्तः कृष्णेष्टमन्त्रस्मृतिपूजनीयः । कृष्णानिशध्यानमनास्त्वनन्यो यो वै स साधुर्मुनिवर्य्य कार्ष्णः ॥ यस्येष्टं श्रीभागवतं शास्त्रं श्रीभगवान् हरिः । भगवत्या समं लक्ष्म्या भक्त्या भागवतश्च सः ॥ ये कृष्णश्रवणाद्यर्हा ये तदुच्छिष्टभोजिनः । ये कृष्णोपासका लोका दासास्ते परि- कीर्त्तिताः ॥” इति पाद्मे उत्तरखण्डे ९९ अध्यायः ॥ * ॥
अपि च । ब्रह्मोवाच । “अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसे । स त्वं वैष्णवदेहेषु तिष्ठसीत्यद्भुतं महत् ॥ क्षणमात्रमपि स्वामिंस्तुष्टे त्वयि न किं भवेत् । स त्वं वैष्णवसङ्गेन भ्रमसीत्यद्भुतं महत् ॥ के वैष्णवाः कैटभारे ! किं वा तेषाञ्च लक्षणम् । कथं ज्ञेयाश्च ते सर्व्वे तन्मे कथय केशव ॥ भगवानुवाच । वैष्णवानां लक्षणानि कल्पकोटिशतैरपि । सम्यग्वक्तुं न शक्नोमि संक्षेपात् शृणु सत्तम ॥ संसारो वैष्णवाधीनो देवा वैष्णवपालिताः । अहञ्च वैष्णवाधीनस्तस्मात् श्रेष्ठाश्च वैष्णवाः ॥ क्षणमात्रमपि ब्रह्मन् विहाय वैष्णवं जनम् । तिष्ठामि नाहमन्यत्र वैष्णवो मम बान्धवः ॥ कामक्रोधविहीना ये हिंसादम्भविवर्ज्जिताः । लोभमोहविहीनाश्च ते ज्ञेया वैष्णवा जनाः ॥ अमत्सरा दयायुक्ताः सर्व्वभूतहितैषिणः । सत्योक्तिभाषिणश्चैव ज्ञेयास्ते वैष्णवा जनाः ॥ पितृभक्ता मातृभक्ता जातिपोषणतत्पराः । धर्म्मोपदेशिनो ये च ज्ञेयास्ते वैष्णवा जनाः ॥ समानं ये च पश्यन्ति त्वाञ्च माञ्च महेश्वरम् । कुर्व्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ॥ वेदविद्यानुरक्ता ये द्बिजभक्तिरताः सदा । नपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ॥ एकादशीव्रतं ये च भक्तिभावेन कुर्व्वते । गायन्ति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ॥ देवायतनकर्त्तारस्तुलसीमाल्यधारिणः । रुद्राक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ॥ मत्पादसलिलैर्येषां सिक्तानि मस्तकानि वै । मम नैवेद्यमश्रन्ति ज्ञेयास्ते वैष्णवा जनाः ॥ शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैः । ब्रह्मन् येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ॥ कर्णयोश्चैव शीर्षेषु तुलसीपत्रमुत्तमम् । सततं दृश्यते येषां ज्ञेषास्ते वैष्णवा जनाः ॥ तृणानि तुलसीमूलाद्ये चिन्वन्ति नरोत्तमाः । सिञ्चन्ति बुलसीं ये च विज्ञेयास्ते च वैष्णवाः ॥ तुलसीमूलमृद्भिश्च तिलकानि नयन्ति ये । तुलसीकाष्ठपङ्कैश्च विज्ञेया वैष्णवा जनाः ॥ गङ्गास्नानपरा ये च गङ्गानामपरायणाः । गङ्गामाहात्म्यवक्तारो विज्ञेयास्ते च वैष्णवाः ॥ धात्रीफजस्रजो येषां गलेषु कमलासन । यजन्ति ये च तत्पत्रैर्व्विज्ञेयास्ते च वैष्णवाः ॥ शालग्रामशिला येषां गृहे वसति सर्व्वदा । शास्त्रं भागवतञ्चैव ज्ञेयास्ते वैष्णवा जनाः ॥ सन्मार्जयन्ति ये नित्यं मम स्थानानि सर्व्वदा । दीपं यच्छन्ति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ॥ शीर्ण्णं मन्मन्दिरं ये च कुर्व्वते नूतनं पुनः । तत्रायनञ्च शोभाञ्च ज्ञेयास्ते वैष्णवा जनाः ॥ अभयं ये च यच्छन्ति भीरुभ्यश्चतुरानन । विद्यादानञ्च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ॥ क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छन्त्यन्नमम्बु च । कुर्य्युर्ये रोगिशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥ आरामकारिणो ये च पिप्पलारोपिणोऽपि च । गोसेवां ये च कुर्व्वन्ति ज्ञेयास्ते वैष्णवा जनाः ॥ अत्यन्तभक्ता ये ब्रह्मन् पितृयज्ञं प्रकुर्व्वते । कुर्व्वन्ति दीनशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥ तडागग्रामकर्त्तारः कन्यादानप्रदाश्च ये । सेवन्ते स्वगुरौ ये च ज्ञेयास्ते वैष्णवा जनाः ॥ सेवन्ते ज्येष्ठांभगिनीं ज्येष्ठं भ्रातरमेव च । परनिन्दां न कुर्व्वन्ति ज्ञेयास्ते वैष्णवा जनाः ॥ देवस्वं ब्राह्मणद्रव्यं परस्वञ्च चतुर्म्मख । पश्यन्ति विषवद्ये च ज्ञेयास्ते वैष्णवा जनाः ॥ पाषण्डसङ्गरहिताः शिवभक्तिपरायणाः । चतुर्द्दशीव्रतरता ज्ञेयास्ते वैष्णवा जनाः ॥ बहुनात्र किमुक्तेन भाषितेन पुनः पुनः । मदर्च्चां ये च कुर्व्वन्ति ज्ञेयास्ते बष्णवा जनाः ॥ वैष्णवेषु मुणाः सर्व्वे दोषलेशो न विद्यते । तस्माच्चतुर्मुख त्वञ्च वैष्णवो भव साम्प्रतम् ॥ समाराधय मां नित्यं क्रियायोगैः प्रजापते । सर्व्वमेव सुभद्रं ते भविष्यति न संशयः ॥ भूयः पूर्व्वस्थितमिव सृज्यतां सकलं जगत् । इत्युक्त्रान्तर्द्दधे देवस्तत्रैव जगदीश्वरः ॥ ततस्तु पूर्व्ववद्ब्रह्म सृष्टवान् सकलं जगत् । क्रियायोगैर्हरिं यष्ट्वा जगाम परमं पदम् ॥ ये पठन्ति ममाध्यायं भक्त्या नारायणाग्रतः । सर्व्वपापविनिर्म्मुक्ता अन्ते यान्ति हरेः पदम् ॥” इति पाद्मे क्रियायोगसारे २ अध्यायः ॥ * ॥
कालिङ्ग उवाच । “जातिस्मरेण कथितो रहस्यः परमो मम । यमकिङ्करयोर्योऽभूत् संवादस्तं ब्रवीमि ते ॥ स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥” इति श्रीविष्णुपुराणे तृतीयेऽंशे यमगीतं ७ अध्यायः ॥ * ॥
अपि च । “कर्म्मक्षयाणि कर्म्माणि यतः साधुर्हरिः स्वयम् । मन्ये न भौतिको देहो वैष्णवस्य जगत्त्रये ॥” इति कल्किपुराणे ३० अध्यायः ॥