वोड्री
वोढु
वोढव्य
शब्दकल्पद्रुमः
वोढव्यः || त्रि वहधातोस्तव्यप्रत्ययेन निष्पन्नमेतत् । वहनीयः । वाह्यः । इति मुग्धबोधव्याकरणम् ॥ (यथा, हरिवंशे । ७५ । ८८ । “वोढव्या पुङ्गवेनेव धूःसदा रणमूर्द्धनि ॥” परिणेतव्यः । यथा, महाभारते । १२ । ४४ । ४५ । “न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा ॥”)