संस्कृत-शब्दकोशः

वोढु वोण्ट

वोढृ

वाचस्पत्यम्

वोढृ ||‍ त्रि० वह—तृच् । १ वाहके २ स्थानान्तरप्रापके “भागी- रथी निर्झरशीकरार्णा वोढा” कुमारः । ३ पाणिग्रा- हके पु० “पिण्डदा वोढुरेव ते” स्मृतिः । ४ भारवाहके ५ मूढे च त्रि० शब्दच० । ६ वृषभे पु० राजनि० । ७ सुते पु० मेदि० ।


शब्दकल्पद्रुमः

वोढा || [ऋ] पुं, (वहतीति । वह + तृच् । “सहिवहोरोदवर्णस्य ।” ६ । ३ । ११२ । इति अकारस्यौकारः ।)
भारिकः । (यथा, भाग- वते । ५ । १० । २ । “विषमगतां स्वशिविकां रहूगण उपधार्य्य पुरुषानधिवहत आह हे वोढारः साध्वति- क्रामत ॥”)
मूढः । परिणेता । इति शब्द- रत्नावली ॥ (यथा, मनुः । ८ । २०४ । “अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते । उभे ते एकशुल्केन वहेदित्यब्रवीन्मनुः ॥”)
सूतः । इति मेदिनी ॥ अनड्वान् । ऋषभः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । ११ । २६ । ५ । “तपोऽर्थीयं ब्राह्मणी धत्त गर्भं गौर्व्वोढारं धावितारं तुरङ्गी ॥” वहनकर्त्तरि, त्रि । यथा, कुमारे । १ । १५ । “भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः ॥”)



Correction: