वाचस्पत्यम्
वोरक || पु० अवनतं लेखनकाले उरो यस्य प्रा० ब० कप् अवस्यातो लोपः पृषो० सलोपः । लेखके त्रिका० ।
शब्दकल्पद्रुमः
वोरकः || पुं, लेखकः । इति त्रिकाण्डशेषः ॥