वाचस्पत्यम्
वोरव || पु० वा—उर वोरं वाति वा—क । (वोरो) धान्यभेदे “वोरवस्तु बुधैः प्रोक्तस्त्रिदोषस्य प्रकोपणः । मधुरश्चा- ल्पपाकश्च व्रीहिः पित्तकरो गुरुः” राभवल्लभ० ।
शब्दकल्पद्रुमः
वोरवः || पुं, धान्यविशेषः । वोरो इति भाषा । अस्य गुणाः । “वोरवस्तु बुधैः प्रोक्तस्त्रिदोषस्य प्रकोपणः । मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ॥” इति राजवल्लभः ॥