संस्कृत-शब्दकोशः

वौषट् व्यक्तदृष्टार्थ

व्यक्त

वाचस्पत्यम्

व्यक्त ||‍ त्रि० वि + अन्ज—क्त । १ स्फुटे २ प्रकाशिते मेदि० । ३ प्राज्ञे अमरः । ४ स्थूले “व्यक्ताव्यक्तज्ञविज्ञानात्” सा० का० । ५ विष्णौ पु० विष्णुम० ।


शब्दकल्पद्रुमः

व्यक्तः || त्रि (वि + अञ्जू व्याप्तौ + क्तः ।)
प्राज्ञः । इत्यमरः ॥ स्फुटः । इति मेदिनी ॥ (यथा, साहित्यदर्पणे । ३ । १ । “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥”)
पुं, विष्णुः । यथा, —
“व्यक्तो वायुरधोक्षजः ।” इति तस्य सहस्रनामस्तोत्रम् ॥



Correction: