संस्कृत-शब्दकोशः

व्यक्तदृष्टार्थ व्यक्ति

व्यक्तरूप

वाचस्पत्यम्

व्यक्तरूप ||‍ पु० व्यक्तानि स्थूलानि भूतान्येव रूपं यस्य । विष्णौ विष्णुस० । तस्य विवाड्रूपेण सर्वभूतात्मकत्वात्तथात्वम् ।


शब्दकल्पद्रुमः

व्यक्तरूपः || पुं, (व्यक्तं रूपं यस्य ।)
विष्णुः । यथा, “अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ।” इति तस्य सहस्रनामस्तोत्रम् ॥ स्पष्टरूपयुक्ते, त्रि ॥



Correction: