संस्कृत-शब्दकोशः

व्यक्तरूप व्यग्र

व्यक्ति

वाचस्पत्यम्

व्यक्ति ||‍ स्त्री वि + अन्ज—क्तिन् । १ प्रकाशे क्तिच् । २ जने हेम० । पृथगात्मतारूपे एकैकविशेषे च अमरः । अभिव्यक्तिशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

व्यक्तिः || स्त्री (व्यज्यतेऽनयेति । वि + अञ्ज + क्तिन् ।)
पृथगात्मिका । इत्यमरः ॥ जनः । इति हेमचन्द्रः ॥ स्पष्टता च ॥ (यथा, रघुः । १ । १० । “तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यतेऽह्यग्नौ विशुद्धिः श्यामिकापि वा ॥” भूतमात्रम् । यथा, गीतायाम् । ८ । १८ । “अव्यक्ताद्व्यक्तयः सर्व्वाः प्रभवन्त्यहरागमे ॥” “व्यक्तयश्चराचराणि भूतानि ।” इति तट्टी- कायां स्वामी ॥ न्यायशास्त्रोक्तस्तत्तत्पदार्थः । यथा, साहित्यदर्पणे । २ । २५ । “सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥”)



Correction: