वाचस्पत्यम्
व्यङ्ग्य || त्रि० वि + अन्ज—ण्यत् । १ व्यञ्जनया वृत्त्या बोध्येऽर्थे “वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः” सा० द० । २ प्रकाश्ये च ।
शब्दकल्पद्रुमः
व्यङ्ग्यः || त्रि व्यञ्जनया बोध्योऽर्थः । यथा, —
“वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥” इति साहित्यदर्पणे २ परिच्छेदः ॥