संस्कृत-शब्दकोशः

व्यजन व्यञ्जन

व्यञ्जक

वाचस्पत्यम्

व्यञ्जक ||‍ पु० वि + अन्ज—णिच्—ण्वुल् । १ हृद्गतभावादिप्रका- शके अभिगये अमरः । २ व्यञ्जनयार्थबोधके शब्दे च सा० द० व्यञ्जनशब्दे दृश्यम् । ३ प्रकाशकमात्रे त्रि० ।


शब्दकल्पद्रुमः

व्यञ्जकः || पुं, (व्यनक्तीति । वि + अन्ज + ण्वुल् ।)
अभिनयः । इत्यमरः ॥ द्वे हृद्गतक्रोधादि- भावाभिव्यञ्जके । व्यनक्तीति व्यञ्जकः । अन्ज ध ञि गति म्रक्षणे णकः । आङ्गिकसात्त्विक- वाचिकाहार्य्यभेदात् व्यञ्जकश्चतुर्व्विधः । अभि- मुखं नीयते अर्थोऽनेन इति अभिनयः । नी ञ प्रापणे अन् । हस्तादिभिः शस्त्रघातादिसूचन- मभिनयः । घटाद्याकारसूचकं करादिसंस्थान- मभिनयः इत्यन्येऽपि । इति भरतः ॥ व्यञ्जनया प्रतिपादकः । (यथा, साहित्यदर्पणे । २ । ३१ । “अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥” प्रकाशके, त्रि । यथा, मनुः । २ । ६८ । “उत्पत्तिव्यञ्जकः पुण्यः कर्म्मयोगं निबोधत ॥”)



Correction: