वाचस्पत्यम्
व्यथ || भये चलने दुःस्यानुभवे च भ्वा० आत्म० अक० सेट् । व्यथते अव्यथिष्ट मित् घटा० । व्यथयति पित् अङ् व्यथा ।
शब्दकल्पद्रुमः
व्यथ || ष म ङ दुःखे । चाले । भये । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।)
दुःखं दुःखानुभवः । चालः कम्पनम् । ष, व्यथा । म, व्यथयति । ङ, व्यथते लोकः दुःखमनुभवति । कम्पते बिभेति वेत्यर्थः । केत्तित्तु दुःखभयचलन- योरिति पठित्वा भये चलनं भयचलनमित्याहुः । दुःखभयचलने इति पठित्वा दुःखभययोश्चलन- मुत्पादनमिति गोविन्दभट्टः । इति दुर्गादासः ॥