शब्दकल्पद्रुमः
व्यथकः || त्रि (व्यथयति पीडयतीति । व्यथ + णिच् + ण्वुल् ।)
व्यथाकारी । यथा, —
“अव्युत्थानं व्यथकस्तु स्यान्मर्मस्पृगरुन्तुदः ॥” इति हेमचन्द्रः ॥ (यथा, किराते । २ । ४ । “परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्य्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥”)