वाचस्पत्यम्
व्यपदेश || पु० वि + अप + दिश—घञ् । १ कथने २ संज्ञायां त्रिका० । ३ कापट्ये हेमच० । ४ मुख्यव्यवहारे च ।
शब्दकल्पद्रुमः
व्यपदेशः || पुं, (वि + अप + दिश + घञ् ।)
कपटः । इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ । १५५ । “कपि कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥”)
नाम । इति त्रिकाण्डशेषः ॥ वाक्यविशेषः । यथा, —
“व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्य्यते ॥” इत्युज्ज्वलनीलमणिः ॥