व्यपदेश
व्यपरोपण
व्यपदेशिन्
वाचस्पत्यम्
व्यपदेशिन् || त्रि० निमित्तसद्भावाद् विशिष्टोऽपदेशा मुख्यो व्यवहारोऽस्यास्ति इनि । मुख्यव्यवहारविषये पदार्थे “व्यपदेशिवदेकस्मिन्” व्या० प० । व्यपदेशेन तुल्यं पर्त्तते इति वति । कार्य्यं प्रति एकास्मन्नसहायेऽपि तत् कार्य्यं कर्त्तव्यमिति तदर्थः ।