वाचस्पत्यम्
व्यभिचार || पु० वि + अभि + चर—घञ् । १ निन्दिताचारे २ स्त्रियाः परपुरुषसंर्गे ३ पुंसश्च परस्त्रासङ्गमे न्यायादि- प्रसिद्धे ४ हेतुदोषभेदे च । हेतुदोषभेदश्च अनैकान्तरूपः । “साधारणासाधारणानु- पसंहारिणामप्यतमत्व च अनैकान्तिकत्वम्” सि० मु० “आद्यः लाधारणस्तु स्यादन्योऽलाधारणो मतः । तथैवानुपसंहारी त्रिधा नैकान्तिको भवेत्” माषा० । “साधारणः साध्यवदनन्यवृत्तिर्हेतुः । तेन च व्याप्ति- ग्रहप्रतिबन्धः क्रियते । असाधारणः साध्यासमा- नाधिकरणो हेतुः । तेन साध्यसामानाथिकरण्यग्रहः प्रतिबध्यते । सत्प्रतिपक्षे तु प्रतिहेतुः साध्याभाव- साधका अत्र तु हेतुरेवेति विशषः । साध्याभावसा- धक एव साध्यसाधकत्वेन उपन्यस्त इत्यशक्तिविशेषोप- स्थापकत्वाच्च विशेषः । सत्प्रतिपक्षः साध्याभापव्याव्य- वान् पक्षः । अमृहाताप्रामाण्यकसाध्यवाप्यवत्त्वेनोप- स्थितिकालीनसाध्याभावव्याप्यवत्त्वेनोपस्थितिविषयस्तथा इत्यन्ये । अत्र च परस्पराभावव्याप्यवत्ताज्ञानात् पर- स्परानुमितिप्रतिवन्धः फलम्” सि० मु० । मणिकृता तु साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभावन्मात्रवृत्त्यन्यत्वम्” अनैकान्तिकत्वमिति लक्षितम् ।
शब्दकल्पद्रुमः
व्यभिचारः || पुं, (वि + अभि + चर + घञ् ।)
कदाचारः । भ्रष्टाचारः । यथा, —
“व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥” इति मानवे ५ अध्यायः ॥ दोषविशेषः । तस्य लक्षणम् । साध्यतावच्छेद कावच्छिन्नप्रतियोगिताकाभाववद्वृत्तित्वं हि व्यभिचारः । इति व्यधिकरणधर्म्मावच्छिन्ना- भावचिन्तामणिः ॥ स त्रिविधः । साधारणः १ असाधारणः २ अनुपसंहारी ३ । तत्र विपक्ष- वृत्तित्वं साधारणत्वम् । सर्व्वसपक्षव्यावृत्तत्व- मसाधारणत्वम् । व्याप्तिग्रहानुकूलैकधर्म्युप- संहाराभावो यत्र सद्धेत्वभिमतोऽनुपसंहार्य्यः । इति सव्यभिचारचिन्तामणिः ॥